Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 498
________________ वर्णस्फोटनिरूपणम् । क्तिकल्पनमन्याय्यमिति नार्थः, किन्तु संसर्गमर्यादया सिद्धे शक्तिकहपनमयुक्तमिति तदर्थात् । | एवञ्च शाब्दिकानां शब्दवद्वन्हौ अतिरिक्तशक्तिस्वीकारः । तार्कि काणां तु शब्दे शक्तिस्वीकारः वन्दौ तु नेत्यर्द्धजरतीय स्वीकारोऽनुचितः । न चोत्तेजकाभावविशिष्टमण्यभावेनोपपत्तौ तत्स्वीकारो व्यर्थ इति वाच्यम्, गुरुभूतविशिष्टस्य कारणतावच्छेदकत्वस्वीकारापेक्षया लघुभूतस्त्रीकृतातिरिक्तशक्तिसम्बन्धस्यैवोचितत्वात् । किञ्च शाब्दि कमते भेदसहिष्णुरभेदस्तादात्म्यम् । गुणत्वद्रव्यत्वादिना भेदेऽपि गुणं विना द्रव्यानुपलम्भाद् द्रव्यं विना गुणानुपलम्भाच्च तयोस्तादाक्यम् । एवञ्च समवायो यत्र तत्र तादात्म्यमिति व्यवहारः । तथा च तैः गुणं प्रति घटस्य पूर्ववर्त्तित्वासम्भवेन कारणत्वाभावादन्यथानुपपत्त्या विशिष्टस्यैव कारणतावच्छेदकत्वमङ्गीकृत्य गुणविशिष्टघटं प्रति गुणविशिष्टकपालस्य कारणत्वमिति स्वीकृतम् | · तार्किकैस्तु विशिष्टस्य कारणतावच्छेदकत्वाद्विशिष्टस्य कारणत्वासम्भवान्निर्गुणघटोत्पत्तिः स्वीकृता, तत्र च गुणाश्रयत्वरूपद्रव्यत्वलक्षणानाक्रान्तत्वाद् गुणसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वमिति निष्कर्षः कृतः । सोऽयुक्त इति मम भाति । तथाहि, प्रतिबन्धकोत्तेजकाभ्यां वन्हौ ज्ञाताऽपि शक्तिरुत्तेजकाभावविशिष्टमण्यभावस्य कारणत्वं स्वीकृत्यातिरिक्ता शक्तिः खण्डिता, शब्दे च सा स्वीकृता । एवं विशिष्टस्य तत्र अवच्छेदकत्वं स्वीकृत्येद्द नेत्युक्का खपुष्पवन्निर्गुणघटोत्पत्तिः स्वीकृ ता । सर्वेषामनुभवाना रूढत्वादेतत्सर्वमयोग्यांमति दिक् । शाब्दिकैस्तु शब्दबद्वन्दौ कर्णविवरवर्त्तिनभसि चातिरिक्ता शक्तिः स्वीकृता । सैव श्रोत्रं, शक्तिविशिष्टं नमो वा । एवञ्च दूरस्थभेरीशब्दस्य स्वस्थानस्थितस्यैव श्रोत्रस्य दीपवत् प्रकाशन सामर्थ्यम् । एवञ्च वीचीतरङ्गन्यायेन भेरीशब्दस्य श्रवणदेश गमनमिति न मनोरमम्, साक्षात् भेरीशब्दं शृणोमीत्यनुभवापलापापत्तेः अनेकशब्दकल्पने गौर वाश्च । न च श्रोत्रमेव तत्र गच्छतीति युक्तम्, आकाशस्य गमनासम्भवात् कर्णविवरे आकाशाभावप्रसङ्गाच्च । श्रोत्रोन्द्रयं गुणमात्र साक्षात्का रजनकम् । केचित्तु श्रोत्रेन्द्रियवद्रसनेन्द्रियघ्राणेन्द्रिययोरपि गुणमात्र साक्षा त्कारजनकत्वमिति वदन्ति । तदयुक्तमित्यपरे । तथाहि शब्दस्याकाशगुणत्वात्समवायेन सा

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510