Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 497
________________ स्फोटचन्द्रिकायां दित इति शातः। तादृशार्थविशेष प्रयुक्तः । तेन गोणीशब्दस्य गोण्या. मेव साधुत्वं न गवि । विनिगमनाविरह इत्यपि न युक्तम् । अन्यतरपक्षपातिनी युक्तिर्हि विनिगमना । सा च ज्ञानस्य पूर्वाभिव्यक्तिरूपा प्रकृतेऽस्ति । अत एवे. श्वरज्ञानं शक्तिरित वद्धमानोपाध्यायाः । शाब्दिकास्तु बोधजनकत्वं शक्तिः ! तच्चानादिबोधजनकतावच्छे. दकधर्मवत्वम् । तदुक्तं हरिणा इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा । अनादिरथैः सम्बन्धः शब्दानां योग्यता तथा ॥ इति । तज्जनकतावच्छेदकधर्मवत्वरूपा योग्यता । न चागृहीतशक्तिकस्य शाब्दबोधानुदयाच्छ।ब्दबोध शक्तिग्रहस्य हेतुत्वाद् बोधोत्तरं शक्तिग्रहः शक्तिमहोत्तरं बोध इति अन्योऽन्याश्रयः, व्याकरणकोशादिना शक्तिप्रहात । अन्यथेश्वरेच्छा शक्तिरिति पक्षेऽपि शक्तिमहोत्तरं बोधः बोधो. त्तरं शक्तिग्रह इति अन्योऽन्याश्रयस्य तुल्यत्वात् । यद्वा, शब्दार्थयोरनादिसम्बन्धः शक्तिः मम तु प्रतिभाति । शक्तिः सामर्थ्य, यथा दीपादौ तेजलि ग्राह्यत्वग्राहकत्वसामर्थ्य, वन्ह्यादौ दा. हकत्वसामर्थ्यम्, इन्द्रियादी विषयप्रकाशनं, तत्स्वरूपसदेवोपयुज्यते न तु ज्ञातम् । एवं शब्देऽपि ग्राह्यत्वग्राहकत्वसामर्थ्य स्वरूपसदेवोप. युक्तं न तु क्षातम । न चागृहीतशक्तिकस्यापि बोधापत्तिः, सन्निकर्षा. दिवत बोधाभावप्रयोजकीभूताभावप्रतियोगितात्पर्यग्रहाभावात । न च नानार्थेष्वेव तात्पर्यग्रहस्य कारणवमिति चेत् ? सत्यम्, शान्दि. कमते सर्वेषां नानार्थत्वात् । अत एव "वृद्धिरादैच" (पासु०१-१-१) इति सत्रे भाष्ये "अनेकशकेः शब्दस्य"इत्युक्तम् । अनेकेष्वनेका वा शक्तिरस्यति विग्रहः । अवच्छेदकभेदे शक्तिभेद इति तार्किकादिसिद्धा. न्तः । लाघवाच्छक्तिरेकैवेति शाब्दिकराद्धान्तः। न चान्यायश्चानेकार्यत्वमिति वाच्यम, भवन्मतेऽपि तुल्यत्वात् । Taraान पर भेदः-शन्मते वृत्तिभेदेन, मन्मते तु एकया वृत्त्या । न च लक्षणोच्छेदापत्तिः, इष्टत्वात् । यथा भवद्भिः सर्वानुभवसिद्धाऽपि व्यः अना लाघवान्न स्वीक्रियते । तत्र च व्यञ्जनोच्छे दापत्तेरदूषकत्ववन्म. न्मतेऽपि लाघवाच्छक्त्यैव निर्वाहे लक्षणोच्छेदापत्तेरदूषकत्वात् । वस्तुत एकवृत्त्यैव निर्वाहे अनेकवृत्तिकल्पनमन्याय्यमित्येव तदर्थः, अर्थपदस्य वृत्तिपरत्वात् । अन्यायश्चत्यस्य लाघवमूलत्वात् । न चानन्यलभ्यः शब्दार्थ इति वाच्यम, तस्य लक्षणया लभ्ये श.

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510