Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 495
________________ स्फोटचन्द्रिकाया रखापत्तेः । अयं तार्किकाणां पदस्फोटत्वेनाभिमतः, शक्तं पदमिति तैः स्वीकृतत्वात् । तर मानाभावात् फलाभावात्स्वग्रन्थविरोधाचायुक्तमिति शाब्दि. काः। तथा हि, शतं पदं चतुर्दा-रुढं यौगिकं योगरूढं यौगिकरूढं चेति । गौर, पाचकः, पङ्कजम् , अश्वकर्णः, इति क्रमेणोदाहरणानि । तत्र 'पाचकः' इति यौगिकोदाहरणे यच्छतं पदं पच् अक इति, न तद्यौ. गिकं, समुदायस्तु यद्यपि यौगिकस्तथापि न शक्तः । एवञ्च शक्तं पदं यौगिकमित्यविचारिताभिधानम् । विशिष्ट शक्त्यभावे सति व्याकरणबोधितार्थप्रकृतिप्रत्यय समुदायरूपसुबन्ततिअन्तपदत्वं यौगिकपदत्वम् । सत्यम्तं योगरूढातिव्याप्तिवारणाय, तत्र विशिष्ट शक्तिमहात् । एवं गौरिति रूढयुदाहरणमप्यसङ्गतम्, व्याकरणकल्पितप्रकृतिप्रत्ययार्थः प्रत्ययाभावे सति समुदायसुबन्तस्यार्थबोधकत्वे रुढपंदत्वं यथा मणि. नूपुरादीति रूढिलक्षणानाक्रान्तत्वात् । शास्त्रकल्पितावयवार्थानुस. धानपूर्वकसमुदायशक्त्याऽर्थबोधकपदत्वं योगरूढत्वम् । यथा पङ्कजादीति । तदाक्रान्तत्वाद्योगरूढत्वं युक्तम् । यौगिकरूढ इति तार्किको. को भेदोऽपि न युक्तः, सकृदुचरितः सकृदर्थ प्रत्याययतीति न्याया• न्मण्डपपदं गृह विशेष रुढं भिन्नं, मण्डपानकर्तरि भित्रमिति अतिरि. कभेदस्वीकारे मानाभावात् । एवं रूढिलक्षणायाः 'कर्मणि कुशलः' इत्युदाहरणमप्ययुक्तम्, उक्त. रीत्या कुशले रुढत्वस्य कुशादानकर्तरि यौगिकत्वस्य सम्भवात । विरेफपदं भ्रमरे रूढमेव, कोशे भ्रमरपर्याये उपादानात् । नहि कोशे लाक्षणिकोपादानं पर्यायेम्वस्ति । एवञ्च स्ववाच्यपदवाच्यत्वसम्बन्धेन द्विरेफपदस्य भ्रमरे लक्षणेति तार्किकोकमपास्तम्, अक्रूरेऽपि उकस. म्बन्धसत्त्वेन तत्रातिव्याप्तेश्च । ___ यद्वा, एकाक्षरकोशावधृतशक्तिकानां सर्वेषां वर्णानामेव स्फोट. त्वम् , "अर्थवन्तो वर्णाः" इत्यनेन भाये तथा प्रतिपादनात् । न चैवं धनं, वनमित्यादी प्रातिपदिकसंधापत्तिः, समुदायशः स्वाश्रयश. कतावच्छेदकानुपूर्वीभङ्गजनकार्थकार्य प्रति प्रतिबन्धकत्वात(१)। यत्त भूषणे स्फुटति अर्थो यस्मादिति स्फोटः वाचक इति याच. दिति केवलयौगिकः स्फोटशब्द उक्त । नत्र सम्यक् , साधुशब्दाना. (१) अवयवनिष्ठशक्निनिरूपकाविषयकशान्दबोधं प्रति समुदायनिष्ठशकिनिरूपकार्थविषयक. तात्पर्यज्ञानस्य प्रतिबन्धकत्वादित्यर्थः ।

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510