Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 461
________________ ४५२ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमालिकेतेनाण् न भवति । कयन्तर्हि "क्रव्यादो ऽनप आशरः" (अ०को०१-१६२) इत्यमरः? ___ अत्राहु-कृत्तविकृत्तपकमांसशब्दे उपपदे अण् । तस्य च पृषो. दरादित्वात्कव्यभाव इति । अस्यार्थः-कृत्तं छिन्नं तदेव पुनर्विशेषतः कृतं, "पूर्वकाल"(पा०स०२-१-४८) इति समासः, तस्य पकशब्देन पुनः स एव समासः, ततो मांसशब्देन पुनर्विशेषणसमासः, तस्य क्रव्यादेशः । नन्वेवं 'क्रव्यादः' इति रूपस्यावर्जनीयतया किं वासरूपबाधनार्थेनानेन वचनेन । वार्तिकविरोधश्च । यदाइ-अदोऽनन्ने क्रय ग्रहणं वासरूपनिवृत्यर्थमितीति चेत् ? भैवम् , अर्थभेदादुभयसाधुत्वो. पपत्तेः । आममांसभक्षको हि क्रव्यात् । विशिष्टपक्कभक्षस्तु 'क्रव्यादः'इति। दुहः कब्धश्च (पा०सू०३-२-७०) ॥ दुहेः सुप्युपपदे कप् स्याद्धश्वान्तादेशः। कामदुधा धेनुः । मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (पा०स०३-२-७१) ॥ श्वेता. दिपूर्वेभ्यो वहादिभ्यो धातुभ्यो ण्विन्प्रत्ययः स्यान्मन्त्र । धातूपपदस. मुदायाश्चेह निपात्यन्ते अलाक्षणिककार्यार्थ, प्रत्ययस्तु विधीयते । श्वेतशब्दे कर्तृवाचिन्युपपदे वहेर्धातोः कर्मणि कारके ण्विन्प्रत्ययो भव. ति । श्वेता एनं वहन्ति श्वेतवा इन्द्रः, तं श्वेतवाहम् । उक्थे कर्मणि करणे वोपपदे शंसतेः प्रत्ययो नलोपश्च । उक्थानि उकीर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । दाश दाने (भ्वा० उ०९०७) अस्व पुरसपूर्वस्य आदेर्डत्वं कर्मणि च प्रत्ययः । पुरो दा. श्यते पुरोडाशः। श्वेतवाहादीनां डस् पदस्येति वक्तव्यम् (का०वा०) । यत्र डस. न्तस्य पदत्वं भविष्यति तत्र विनोऽपवादो डम्प्रत्ययो वक्तव्य इत्य. र्थः। ततश्च 'श्वेतवाहो' इत्यादावपदान्तविषय एव सूत्रोक्तो विनुदा. हार्यः । 'श्वेतवाः' इत्यादि तु सौत्रस्य विनोऽपवादेन औपसंख्यानि. केन डस्प्रत्ययेनैव सिध्यतीत्यवधेयम् । . वृत्तौ ण्विनं प्रक्रम्य 'श्वेतवाः' इत्याद्युदाहरणन्तु डमविषये वि. वोऽपि प्राप्तिः स्थितेत्येतावन्मात्राभिप्रायकतया कथञ्चिन्नेयम् । नच इसं विनापि "अवयाः श्वेतवाः"(पासू०८-३-६७) इत्यनेन रुत्वं निः पात्यतामिति वाच्यम्, अविशेषेण निपातने 'श्वेतवाहो' इत्यादावति. प्रसक्तः । पदान्तविषयत्वेऽपि 'श्वेतवोभ्याम्' इत्यादावुत्वं न सिध्येत् । तस्माइस् वाच्य एव । नन्वेवं 'श्वेतवाः' इत्यादिनिपातनं व्यर्थमिति चेत् ? न, तस्य सम्बुद्धयर्थत्वात् । एवश 'उक्थशाः' इत्यपि सम्बुद्धार्थ

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510