Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 464
________________ धात्वधिकारे कृत्प्रकरणम् ४५५ अत्र भाष्यम् - सुपीति वर्त्तमाने पुनः सुग्रहणं किमर्थम्, 'अनुपसर्ग' इत्येवं तदभूत् । इदं तु सुबमात्रे यथा स्यात् । उदासारिण्यः प्रत्यासारिण्य इति । अस्यायमाशयः–“सत्सु द्विष" (पा०सु०३-२-६१ ) इति सूत्रे " सुपि स्थः' (पा०सु०३-२-४) इत्यतः 'सुपि' इत्यनुवर्त्तते तच्चोपसर्गेतर परम् "उपसर्गेऽपि" इति पृथगुतेः । तदिद्दानुवर्तमानमर्थाधिकारादुपसर्गेतरप रमेव स्यात् । न चोपसर्गेपीत्यं शोपीहानुवर्त्तयितुं शक्यः, केवलभजूदाधनार्थत्वेन निर्णीते "स्थः क च" (पा०सू०३-२-७७) इति पूर्वसूत्रे "उ पसर्गेपि" इत्यंशस्य फलाभावेन विच्छिन्नत्वादिति । यद्यप्युत्तरार्थतया पूर्वत्राप्यनुवृत्तिरिति वा मण्डूकप्लुतिन्यायेनदेव सम्बन्ध इति वा सुब्ग्रहणस्यैव शब्दाधिकार इति वा "सत्सूद्विष" (पा०सु०३-२-६१ ) इति सुत्रे वर्णितरीत्या तस्यानावश्यकतेति वा सुवचं, तथापि सूत्रकाराशयवर्णनमात्रमेतत् । निष्कर्षे तु मा भूदिह सुब्ग्रहणमनुवृत्यैव निर्वा हात् । सर्वथाऽपि सुमात्रे उपपदे णिनिः नत्वनुपसर्ग एवेति सिद्धामतः । तथा च प्रयुज्यते - " स बभूवोपजीविनाम्" " न्यषेधि शेषोऽप्यनुयायिवर्गः" "अरिष्टशय्यां परितो विसारिणा" "पतत्यधो धाम वि. सारि सर्वतः” “विसारिभिः सौधमिवांशुजालैः” “प्रभाविनं भाविनमम्तमात्मनः" "न वञ्चनीयाः प्रभवोऽनुजीविभिः" इत्यादि । यत्त्विह वृत्तिकृतोकं सुपीति वर्त्तमाने पुनः सुग्रहणमुपसर्गनिवृत्त्यर्थमिति, तन्न, भाष्यविरोधात्, उदाहृतप्रयोगविरोधाश्च । न चैते प्रयोगा आवश्यकादिणिनिना कथं चिन्निर्वाह्या इति वाच्यम्, यथाश्रुते बाधकाभावात् । यद्यपि वृत्तिकृतोक्तम् “उत्प्रतिभ्यामाङि सर्त्तरुपसंख्यानम्” (का०वा० ) इति तदपि न । भाष्ये तादृशवार्त्तिकाभावात् । एतेन "उत्पतिभ्याम्" इति प्रतीकमुपादाय 'सुप्' इत्यस्योपसर्गनिवृत्यर्थत्वादयमारम्भ इति वदन् हरदत्तोऽपि प्रत्युक्तः, भाष्यविरोधात; आष्ट· मिकसकलप्रन्धविरोधाच। तथाहि, "कृत्यचः " (पा०सू०८-४-२९) इति सूत्रे अनमानानीयानीनिनिष्ठादेशाः प्रयोजयन्तीत्येतद्वाक्यान्तर्गनिग्रहणव्याख्यावसरे "सुप्यजाती णिनिः" "आवश्यके च" इति व्याख्यातम् । "सुप्यजातो" इत्यस्योपसर्गे प्रवृस्यभावे असकृतमेव तत्स्यात् । "कृत्यचः' (पा०सू०८-४-२९) इत्यत्रोपसर्गादित्यनुवृत्तेः । यदपि "अनुमादिनष्ठक्" (पा०सु०५-४-१३) इत्यत्रास्मादेव निपातनाणिनिरिति "विसारिणो मत्स्ये" ( पा०सु०५-४-१६) इत्यत्र च पूर्ववणि निरिति तदप्येतेनापास्तम् । यदपि माधवेनोकम् - अस्मादेष षि

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510