Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 475
________________ शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे तृतीयान्हिके स्यादेतत् । 'आत्मा अस्ति' इत्यादौ आरम्भाभावात्कथं लट्, "आ. त्मा वा इदमेक एवाग्र आसीत्" इत्यादौ भूतप्रत्ययाः, आत्मा भाविक. ल्पेऽपि भविष्यतीत्यादिभविष्यत्प्रत्ययाश्च कथमिति चेत् ? एकस्या -अध्यात्मसप्तायास्तत्तत्क्रियोपहिताया औपाधिकं भेदं पुरस्कृत्य सर्व ૩૬૬ - निर्वाहात् । इति श्री शब्द कौस्तुभे तृतीयस्याध्यायस्य द्वितीये पादे द्वितीयमान्दिकम् । लटः शतृशानचाघप्रथमासमानाधिकरणे ( वा०सु० ३-२-१२४) ॥ द्वितीयाद्यन्तेन समानाधिकरणे लटि सति तस्य लटः स्थाने शत्रुज्ञानचौ स्तः । पचन्तं पचमानं पश्य । पचता पचमानेन कृतम् । यद्यपि तिङतोपस्थाप्ययोः कर्त्तकर्मणोरप्रथमान्तेन सामानाधिकरण्यं मास्त्येव, तथापि हृदन्तोपस्थाप्ययोः सामानाधिकरण्यदर्शनात्कृत्स्थानितया प्रक्रियावस्थायां कल्प्यमानो लकारः प्रकृत्यर्थं प्रति प्रधानभूते कर्तृकर्मणी अभिदधानः कल्प्यते । लकारवाच्यांशस्य तिङ्कृतोरविशेषेऽपि गुणप्रधानभावे वैलक्षण्यमस्तीति फलितोऽर्थः । अप्रथमेत्यादि किम् ? देवदत्तः पचति । कथन्तर्हि सन् ब्राह्मण इत्यादि ? $6. अत्राहुः । .: शत्रुशान चौ" ( पा०सू०३-२-१२४) इति योगो विभ ज्यते ।" नन्वोर्विभाषा" (पा०सु०३-२-१२१) इत्यतो विभाषाऽनुवर्तते । व्यवस्थितविभाषेयम् । तेन यथादर्शनं प्रयोगोऽप्यवतिष्ठते । मप्रथ: मेत्यादि तु योगान्तरं विषयविशेषे शतृशान चोर्नित्यतायाः स्पष्टीकरणाय । एवं “सम्बोधने च " ( पा०सू०३-२-१२५) इन्याद्यपि बोध्यम् । माझ्याक्रोशे इति वक्तव्यम् (का०वा० ) । मा जीवन् । मा पत्रमानः । माङिलुङो ऽपवादोऽत एव लड् । सम्बोधने च (पा०सु०३-२-१२५) ॥ हे पचन् । हे पचमान | लक्षणहेत्वोः क्रियायाः (पा०सू०३-२-१२६) || लक्षणं चिन्हम् । हेतुः फलं साघनञ्च । क्रियाया लक्षणे हेतौ च यो धातुस्तस्माल्लुटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । इह शयनं भुजिक्रियायाः परिचायकम् | अर्जयन्वसति । अर्जनं वासस्य फलम् । विद्वान्मुच्यते । ज्ञानं मोक्षसाधनम् । इद्द लक्षणत्वादिकं द्योत्थम । लडर्थस्तु कर्त्रा • दिवेति बोध्यम् । परिचायकशयनाश्रययवन रूपानेकाश्रयनिष्ठ । वर्त मानो मुजिक्रिया । फलीभूतार्जनाश्रयकर्तृको वासः । जनकशानाश्रयतिष्ठो मोक्षच्च वाक्यार्थ इति दिक् । 1

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510