Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 474
________________ धात्वधिकारे करप्रकरणम्। ४६५ परोक्ष लिट् (पा०सू०३-२-११५) ॥ भूतानद्यतनपरोक्षार्थवृत्त/तोर्लिट् स्यात । बभूव । अथ कथम् “अभून्नृपो विबुधसखः" इति भट्टिः, "अभूदभूमिः प्रतिपक्षजन्मनाम्' (मा०का०१-४२) इति माघ. श्चेति खेत ? शृणु, वस्तुतो लिड्विषयस्यापि भूतत्वसामान्यांशमा. अविवक्षायां लुङ् । अत्यन्तापहवे लिड् वक्तव्यः (कावा०) । नाहं कलिङ्गान् जगाम । अपरोक्षार्थमुपसङ्ख्यानम् । कलिलाख्ये कुत्सिते देशविशेष त्वया चिरं स्थितम् इत्याभियोगे कृते नावस्थानमात्रं निषिध्यते किन्तु तत्प्रयोजकं गमनमपीति सोऽयमत्यन्तापह्नवः । ___ हशश्वतोर्लङ् च (पासू०३-२-११६) ॥ लिड्विषये लङ् चा. लिट् । इति हाकरोचकार वा । शश्वदकरोचकार वा। प्रश्शे चासनकाले (पासू०३.२-११७) ॥ पृच्छयते इति प्रश्नः । क. मणि नङ् । पञ्चवर्षाभ्यन्तरमासनकालः। प्रश्नविषयीभूतासनकाल. भूतानद्यतनपरोक्षार्थाद्धाताल लिटौ स्तः । अगच्छतिक देवदत्तः, जगाम वा। लट् स्मे (पासू०३-२-१९८) । लिटोऽपवादः । यजति स्म युधि. ष्ठिरः । इयाज किलेत्यर्थः। ___ अपरोक्षे च (पासू०३-२-११९) । स्मे लट् स्यात् । लङोऽपवादः । एवं स्म पिता ब्रवीति । ननौ पृष्टप्रतिवचने (पा०१०३-२-१२०) ॥ अमद्यतनपरोक्षे इति निवृत्तम् । भूतसामान्ये लट् स्यात् । अकार्षीः किम्? ननु करोमि भो। नन्धोर्विभाषा (पा०सू०३-२-१२१) ॥ भूतसामान्य पृष्टप्रतिवचने लट् वा । अकार्षीः किम् : न करोमि, नाकार्षम् । अहं नु करो. म्यकार्ष वा। पुरि लुङ् चास्मे (पासु०३-२-१२२) ॥ अनद्यतनग्रहणं मण्डूकप्लु. त्याऽनुवर्तते । स्मवर्जिते पुराशब्दे भूतानद्यतने लुङ्लटो वा स्तः । त. योरभावे यथाप्राप्तम् । वसन्तीह पुरा छात्राः। अवात्सुः, अवसन्, ऊ. पुर्वा । अस्मे किम् ? नडेन स्म पुराऽधीयते । नडाख्यं तृणविशेष हस्ते गृहीत्वेत्यर्थः। वर्तमाने लट् (पा०स०३-२-१२३)वर्तमानार्थधातोर्लट् स्यात् । प. चति । अधिश्रयणादिरधाधयणान्त एकफलावच्छिनो विततरूपी व्यापारकलापा पचेरर्थः । तस्य च वर्तमानत्वमारब्धापरिसमाप्त। तश्च लटो द्योत्यम्। शब्द. द्वितीय. 30.

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510