Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 481
________________ ૩૭૨ शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे तृतीयान्हिले नुणो विषयेऽपि अनुदान्तलक्षणो युच् भवति । 'विकल्प' इति यथा । लषपतपदस्थ।भूवृषहनकमगमशृभ्य उकञ् (पा०सु०३-२- १५४) ॥ अभिलाषुकः । पातुकः । पादुकः । स्थायुकः" इत्यादि । जल्पभिक्षकुट्टलुण्यवृङः षाकन् (पा०सू०३-२- १५५) ॥ जल्पाकः । जरुपाकी । भिक्षाकः । भिक्षाकी इत्यादि । प्रजोरिनि: (पा०सु०३ - २ - १५६ ) ॥ प्रजवी | जिरक्षिविश्राण्यमान्य थाभ्यम परिभूप्रसुभ्यश्च (पा०स्०३-२- १५७) n जयी | दरी । क्षयी | वियी । अत्ययी । वमी । व्यथ भयसञ्चलनयोः (स्वा०आ०७६५) नत्रपूर्वः । सूत्रे निपातनादेव नत्रो धातुमा समा सः, ततो नलोपः, ततः प्रत्ययः । अव्यथी । परिभवी । प्रसवी । इह झिये (स्वा०प०२३६) क्षि निवासगत्योः, षू प्रेरणे (तु०प०१२७, १२८ ) एतं गृह्यन्ते, निरनुबन्धकत्वात् । क्षि हिंसायाम् ( स्वा०प०३१) षूङ् प्राणिगर्भविमोचने (अ०आ०२१) पूङ् प्राणिप्रसवे (दि०आ०२६) पते न गृह्यन्ते, सानुबन्धकत्वात् । प्रजोरप्यत्रैव ग्रहणं कृत्वा सूत्रभेद - श्धकारश्च सुत्यजः । स्पृहि गृहिपतिदयिनिद्वातन्द्राश्रद्धाभ्य बलुच् ( पा०सु०३-२१५८ ) ॥ स्पृह ईप्सायाम् (चु०प०३३९) गृह ग्रहणे ( खु०या०३१७) पत गतौ (चु०प०३२९) एते चुरादावदन्ताः । "अयामन्ता” (पा०सु० ६-१-५५ ) इत्ययादेशः । स्पृहयालुः । गृहयालुः । पतयालुः । निद्रालुः । तत्पूर्वको द्वा । मत्र समालस्तदो नान्तत्वञ्च निपात्यते । तन्द्रादुः। श्रद्धालुः। • शीडो वाच्यः (का०वा० ) । शयालुः । कथं 'कृपालुः' 'स्पर्धालुः' इति ? कृपां स्पर्धा च लातीति विग्रहे मृगय्वादित्वात्कुः । दाधेट्सिशदसदो रुः (पा०सु०३-२- १५६ ) | दारुः । ' घारुः | सेरुः । शत्रुः । सद्गुः । सृघस्यदः कमरच् (पा०सू०३ - २ - १६०) || घसिः प्रकृत्यन्तरम् । सृमरः । घस्मरः । अग्नरः । भजभासमिदो घुरच् ( पा०सू०३ - २ - १६१) ॥ भङ्गुरम् | भासु· रम् । मेदुरम् । विदिभिदिच्छिदेः कुरच् (पा०सु०३-२- १६२ ) ॥ वेत्तेरेव ग्रहणं, व्याख्यानात् । विदुरः । भिदुरः । छिदुरः । भजे भिंदिच्छिदिभ्याञ्च कर्मकर्त्तरि प्रत्ययौ । इति वृत्तिकाराः । न त्वेतद्भाष्ये दृष्टम् । तथा च माघः - शुद्धे कर्त

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510