Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 479
________________ ४७० शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे तृतीयान्हिकेरोधी । आयामी । आयासी । परिसारी । संसर्गी। परिदेवी । सवारी। परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही। दोही । योगी। आक्रोडी । विवेकी । त्यागी। रागी। भागी। अतिचारी । अपचारी। आमाषी । अभ्याघाती । येऽत्र सम्पूर्वास्तेषां द्वन्द्वं कृत्वा"सम एभ्यः" इति वक्तव्यम् । एवमाइपूर्वाणां परिपूर्वाणा. श्व । एवञ्च सिद्धे प्रत्येकपाठ उपसर्गान्तरविशिष्ट मा भूदित्येवमर्थः । वो कपलसकत्थरम्भः (पा०स०३-२-१४३) ॥ 'कष हिसायां' (भ्वा०प०६८६) । विकाषी । विलासी। विकत्थी । विनम्भी॥ __ अपेच लषः (पा०स०३-२-१४४) ॥ चाद्वौ । अपलाषी । विलाषी ॥ प्रे लपघुमथवदवसः (पा००३-२-१४५) । प्रलापी । प्रसारी। प्रद्रावी । प्रमाथी । प्रवादी । वस निवासे (भ्वा०प०१०३०) ! प्रवासी । आच्छादनार्थस्तु न गृह्यते, लुग्विकरणत्वात् । निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपीरवादिव्याभाषासूयो वुञ् (पा०स०३-२-१४६) ॥ अत्र नश्यतेय॑न्तस्य भाविना णिलोपेन निर्देशः । अकारस्तूच्चारणार्थः । कोचिन्तु विनाशी'इति ण्यन्तमेव पठ. न्ति । असुयतिः कण्वादियगन्तः। समाहारद्वन्द्वः । व्यत्ययेन पुंस्त्वम। पञ्चम्यर्थे च प्रथमा । "निन्दकः' इत्यादि । __स्यादेतत् । असूयतिभिन्नानामिह ग्रहणं व्यर्थम् , ण्वुलैव रूपसि. द्धः। असुयतेस्तु ण्वुलि प्रत्ययात्पूर्वमुदात्तं वुजि तु"नित्यादिः" (पा० सू०६-१-१९७) इति स्वरे विशेषः । इतरेषां त्वेकाचत्वान्न स्वरे भेदः । न च तृना ण्वुलो बाधः, वासरूपन्यायस्य जागरूकत्वादिति चेत् ? सत्यम्, "ताच्छीलिकेषु वासरूपन्यायेन एबुल्तृजादयो न भवन्ति" इति ज्ञापनार्थमेतत् । देविक्रुशाश्वोपसर्गे (पासू०३-२-१४७) ॥ मादेवकः । परिको. शकः । उपसर्ग किम् ? देवयिता । कोष्टा । दीव्यतेहेतुमाण्णजन्तस्य 'दिवुकजने' (चु आ०१७३) इत्यस्य चुरादिण्यन्तस्य च ग्रहणमित्याहुः॥ चलनशब्दार्थादकर्मकााच (पा०सू०३-२-१४८) ॥ चलनः । चो. पनः । शब्द शब्दने (चु०प०१८२) चुरादिः । शब्दनः । रवणः कर्मकात्किम् ? पठिता विद्याम् । ____ अनुदान्तश्च हलादेः (पा०सू०३-२-१४९) ॥ अकर्मकाद्युजित्यनु. वर्तते । वर्तनः । अनुदात्तेतः किम् ? भावता । हलादेः किम ? एधि. ता। आदिग्रहणं किम् ? हलन्तादित्यर्थो मा भूत । तथाहि सति 'एधिता'इत्यादावतिप्रसङ्गः 'जुगुप्सनः"मीमांसनः' इत्यत्राव्याप्तिश्च स्यात्।

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510