Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 484
________________ धात्वधिकारे कृत्प्रकरणम् । क्रुकन्नपि वक्तव्यः (कावा०) ॥ भीरुकः। स्थेशभासपिसकसो वरच (पासू०३-२-१७५ ) ॥ स्थावरः। ईश्वरः । भास्वरः। पेस्वरः । कस्वरः। थश्च यङः (पासु०३-२-१७६) यातर्यङन्ताद्वरच । यायावरः । भ्राजभासधुर्विद्युतोर्जिजुग्रावस्तुवः किए (पा०स०३-२-१७७) ॥ "व्रश्च"(पासू०८-२-३६) इति षत्वम् । विभ्राट् , विभ्राजौ । भाः, भासौ । "राल्लोपः, (पा०सू०६-४-२१) इति वलोपः । धूः, धुरौ । विद्युत् । ऊ । पूः, पुरौ । दृशिग्रहणाजवतेर्दीर्घः। जूः, जुवौ, जुवः । ग्रावस्तुत्। अन्येभ्योऽपि दृश्यते (पासू०३-२-१७८) | दृशिग्रहणं विध्यन्त. रोपसङ्ग्रहार्थम् । तश्च वार्तिककारः स्फुटीचकार । आह हि वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घश्व (काभ्वा०)॥ धुतिगमिजुहोतीनां द्वे च (का०वा०)॥ दृणातेईस्वश्च (का०वा०) ॥ ध्यायतेः सम्प्रसारणच (कावा०)। इति । वक्तीति वाक् । शब्दप्राट् । आयतस्तूः । कटप्रूः । जूः । श्रीः । पचिप्रच्छयोः सम्प्रसारणन्तु न, दीर्घवचनसामर्थ्यात् । अपर आह 'हशिग्रहणादेव वचिप्रच्छयोः सम्प्रसारणन' इति । "धुतिगमि' इति वात्तिके चकारेण दीर्घः समुखीयते, स च जुहोतेरेव, दीर्घश्रुत्युपस्थि. तेनाचा तदन्तविधिविज्ञापनात् । दिद्युत् । “धुतिस्वाप्योः"(पासू० ७-४-६०) इत्यभ्यासस्य सम्प्रसारणम् । जगत् । जुहूः । नन्विहाभ्याससंझव दुर्लभा, प्रत्यासत्या पाष्ठद्वित्वे एव तत्प्रवृत्तेः । अत एवाष्टमिके सा न, इति चेत् ? सत्यम्, इशिग्रहणादेवाभ्याससंक्षेति हरदत्तः। वस्तुतस्तु "लिटि धातोः" (पा०पू०६-१-८) इत्यतो 'धानो'. त्यनुवृन्त्या 'धातोः' इति द्वित्वेऽभ्याससंशा । एवञ्च न कोऽपि दोष इत्यवधेयम् । दत् । रणातीयते । ध्यायतीति धीः । इह जुदधीरित्यनयो। करणस्य कर्तृत्वविवक्षायां प्रत्यय इति हरदत्तः।। भुवः संज्ञान्तरयोः (पा०पू०३-२-१७९) ॥ भवतेः क्विप्स्यात्संशा. यामन्तरे च गम्यमाने । मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे बस्तिष्ठति विश्वासार्थ संप्रतिभूः । यस्तु प्रामयोरन्तरे तिष्ठति तत्र न, शिग्रहणस्यानुवृत्ते। विप्रसंभ्यो वसंज्ञायाम् (पा०प०३-२-१८०) ॥ एभ्यो भुवो दुः स्यात् न तु संक्षायाम् । विभुः सर्वगतः । प्रभुः स्वामी । सम्भुर्जनिता ।

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510