Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 466
________________ धास्वधिकारे कृत्प्रकरणम् । ४५७ म्भवति 'स्थण्डिले शेते एव' 'अश्राद्धं भुङ्क्ते एव' इति वा, 'स्थ. ण्डिले एव शेते' 'अश्राद्धमेव भुङ्क्ते' इति च, तथापि आद्ये प्रत्ययो न भवति 'बते' इत्युक्तेः । शास्त्रसिद्धो नियमो हि व्रतं, न च शयित. व्यमेव भोक्तव्यमेवेत्यरूपं शास्त्रमस्ति । अस्ति तु स्थण्डिले एव शयितव्यम् , अश्राद्धमेव भोक्तव्यम् इति । तस्मात्तत्रैव प्रत्ययः । अता. च्छील्यार्थमजात्यर्थ वा आरम्भः। बहुलमाभीक्षण्ये (पासू०३-२-८१) ॥ सुप्युपपदे धाताबहुलं णि. निः स्यात् पौनःपुन्ये धोत्ये । क्षीरपायिण उशीनराः। मनः (पा०स०३-२-८२)॥ सुप्युपपदे मन्यतेणिनिः स्यात् । दर्श मीयमानी । बहुलग्रहणादिह देवादिकस्यैव ग्रहणं न तु तानादिकस्य । तेनोसरसूत्र स्खशि श्यनेव भवति । ___ आत्ममाने खश्च (पासू०३-२-८३) ॥ मननं मानः । आत्मशब्दः स्वपरः । कर्मणि षष्ठया समासः । प्रत्ययार्थत्वेन सन्निहितः कर्ता स्वपदार्थः । आत्मकर्मकमनने वर्तमानान्मन्यतेधातोः सुप्युपपदे खग् स्यात् चाणिनिः । यद्यपि वासरूपविधिना सिद्धोऽसौ तथा. प्यविच्छदाय समुशीयने । तेन "करणे यजः" (पासू०३-२-८५) इ. स्यादौ णिनिरेवानुवर्तते न तु खश् । दर्शनीयमान्मानं मन्यते दर्शनी. यम्मन्यः । दर्शनीयमानी । पण्डितम्मन्यः । पण्डितमानी । आत्ममाने इति किम् १ दर्शनीयमानी देवदो यज्ञदत्तस्य । खशः खकारो मुम. था, 'दर्शनीयम्मन्या कुमारी' इत्यादी -हस्वार्थश्च । शकारः साधा. तुकसंक्षार्थः । दिवादित्वात् श्यन् । स्वरस्तु सतिशिष्टोऽपि विकर. स्वर: सार्वधातुकस्वरं न बाघते इति खश एव भवति न तु निः स्वर इति भाष्यकैयटपदमर्यादिषु स्थितम् । ___एवञ्च सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते इति यत्नतस्तत्रतत्र प्राचां प्रन्थेषतम् । तत्र लादेशत्वमविवक्षितमि. त्यवधेयम् । अत एवं दिवादिभ्यश्चानशि श्यनि नित्स्वरेण आधदा. सत्वम् इत्येवंपरः कैयटग्रन्थ आपाततो न तु श्रद्धेय इति प्रपञ्चित. मस्माभिः "स्थानिवत्" (पा०स०१-१-५६) सूत्रे ॥ इति श्रीशनकौस्तुभेतृतीयाध्यायस्य द्वितीये पादे प्रथममाह्निकम् ॥

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510