Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 460
________________ धात्वधिकारे कृत्प्रकरणम् । छन्दसि सहः (पासू०३-२-६३) ॥ सुप्युपपदे उपसर्गे च सहेर्धातोश्छन्दसि ण्विप्रत्ययः स्यात् । दुश्च्यवनः पृतनाषाळयुध्यः। अभीद. मेकमेकोऽस्मि निःषाट् । कथन्तर्हि "तुरासाहं पुरोधाय" "धरातुरा. साहिमदर्थयाच"इत्यादि, छन्दसीत्युक्तेर्भाषायां विप्रत्ययानुपपत्ते. रिति चेत् ? चिन्त्यमिति हरदत्तः । सहतेरभिभवानिवृत्तप्रेषणात्प्राकृतेऽर्थे णिचि किब्धिचोरन्यतर इति वा समाधेयम्। वहश्च (पा०स०३-२-६४)।वहतर्धातोः सुप्युपसर्गे चोपपदे छन्दसि विषये ण्विः स्यात । दित्यवाट् च मे दित्यौही च मे । योगविभाग उत्तरार्थः। कव्यपुरीषपुरीप्येषु ज्युट (पा०स०३-२-६५) ॥ एषूपपदेषु छन्द सि वहेर्युट्प्रत्ययः स्यात् । कव्यवाहनः पितृणाम् । पुरीषवाहनः । पुरीज्यवाहनः। हव्येऽनन्तःपादम् (पा०सु०३-२-६६) ॥ हव्यशन्दे उपपदे छन्दसि वहेयुट् स्यात् पादान्ते । अग्निश्च हव्यवाहनः । पादमध्ये तु "वहश्च" (पासु०३-२-६४) इति विरेव । हव्यवाळग्निरजरः पिता नः। ___ जनसनखनक्रमगमो विट् (पासू०३-२-६७) ॥ उपसर्गे सुपि चो. पपदे छन्दसि विट् प्रत्ययः स्यात् । “वेरपृक्तस्य"(पास०६-१-६७) इत्यादौ सामान्यग्रहणाविघातार्थष्टकारः,"विड्वनो"(पासू०६-४-४१) इत्यादी विशेषणार्थश्च । जन जनने (जु०प०२३), जनी प्रादुर्भावे (दि०आ०४३) द्वयोरपि प्रहणम् । अब्जाः । गोजाः । षणु दाने (तउ० २), षण सम्भको (3५१०४६५) द्वयोरपि ग्रहणम् । गोषा इन्द्रो नृषा अस्यश्वसा वाजसा उत। इयं शुज्मेभिर्विसखा इवारुजत् । आदधिः काः शवसा पश्च कृष्टीः । अग्निमुषसमश्विनान्दधिक्रान्ताः सुर्यों अप्रे शुकोअग्रेगाः । उदाहरणेषु "विड्वनोरनुनासिक स्यात"(पासू०६-४४१) इत्यात्वम् । 'गोषा' 'नृषा' इत्यत्र "सनोतरनः" (पासु०८-३१०८) इति षत्वम् । अप्रेगा इति सप्तम्या अलुक् ।। अदोऽनन्ने (पासू०३-२-६८) ॥ 'छन्दसि' इति निवृत्तम् । अन्न. मिने सुप्युपपदे अदेर्षिट् स्यात । आममत्ति आमात् । सस्यात् । अन. ने किम् ? अन्नादः । भाषायां "कर्मण्यण" (पा०सु०३-२-१)। छन्द. सि तु कृद्वयत्ययेन पचाद्यच् इत्युक्तम् । तेन 'अन्नादः इत्यत्र 'अन अदः' इत्यवग्रहः सिध्यति । । क्रव्ये च (पासू०३-३-६९) ॥ कव्योपपदे अदेर्धातोर्विट् प्रत्यया स्यात् । क्रव्यमाति क्रव्यात् । पूर्वेणैव सिद्ध वचनमसरूपबाधनार्थम् ।

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510