Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 437
________________ ४२८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिकेअपवादत्वादेव तस्याण बाधको बोध्यः। किचेगुपधशाप्रीकिरः कोऽनुः पपदः । तस्यावकाशः-विक्षिपः' 'विलिखः' । कर्मोपपदस्य स एव । 'काष्ठभेदः' इत्यत्र परत्वादण् । तथा "अनुपसर्गाल्लिम्पविन्द" (पासू० ३-१-१३८) इति अनुपपदः शः । तस्यावकाश:-'लिम्पतीति लिम्प:' । कर्मोपपदस्य स एव । 'कुड्यलेपः' इत्यत्र परत्वादण् । तथा "आतश्चो. पसर्गे" (पासू०३-१-१३६) इति कः अनुपपदः 'सुग्ल:' 'सुम्लः ' इत्यत्र सावकाशः। कर्मोपपदस्तत्रैव । 'गोसन्दायः' इत्यत्र परत्वादणेव भवति। व्हावामश्च (पासु०३-२-२)॥ एभ्यः कर्मण्युपपदे अण् स्यात् । कस्यापवादः । 'व्हे स्पर्धायां शब्दे च' (भ्वा०मा०१०३३)। स्वर्गव्हा. यः । वे तन्तुसन्ताने' (भ्वा०आ०१०३१)। तन्तुवायः। 'वा गतिगन्धन. योः' (अ०प०४०) इत्ययन्तु नेह गृह्यते, अकर्मकत्वाता भ्रमणार्थो ह्यसौ । यद्यपि सोपसर्गस्य सकर्मकत्वं दृश्यते "सर्वा दिश आवान्ति" "वात आवा तु भेषजम्" इति । तथापि तत्र पूर्वेणैवाण सिद्धः । “धाता वा. न्ति दिशो दश" इति तु प्रयोगश्चिन्त्यः । अथापि क्वचित्कशञ्चित् स. कर्मकत्वं निर्वाहते, तथापि व्हेजा सानुबन्धेन साहचर्यात् वेत्र एवं ग्रहणं, न तु वातेः । 'माङ् माने' (जु०मा०६,दि०मा०३६) 'मेङ् प्रणि. दाने (भ्वा०आ०९८६) उभयोरपि ग्रहणम् । धान्यमापः । 'मा माने' (अ०प०५२) इत्यस्य तु सम्भावनार्यस्थाकर्मकत्वादग्रहणम।। आतोऽनुपसर्ग कः (पा०स०३-२-३) ॥ भावन्ताद्धातोरनुपस गांत कर्मण्युपपदे कप्रत्ययः स्यात् । अणोऽपवादः । गोदः। पाणित्रम् । अनुपसर्ग किम् ? गोसन्दायः । अत्र वार्तिकम् कविधौ सर्वत्र प्रसारणिभ्यो डः (का०वा०) ॥ सम्प्रसारणमाजा प्रसारणिनः । 'ज्या वयोहानी' (क्या०प०२७)। ब्रह्म जिनातीति ब्र. ह्मज्यः । सर्वत्रग्रहणान्नेहैव "आतश्चोपसर्गे"(पासू३-१-१३६) आम्हः। प्रहः । अत्र के सति सम्प्रसारणं स्यात । 'आव्हा अ' इति स्थिते सम्प्रसारणे पूर्ववे च कृते उवङादेशे 'आहुवः' 'प्रहुवः' इति प्राप्नोति। एवं 'ब्रह्मजियः' इति प्राप्नोति । न च "एरनेकाच:" (पा०स०६-४-८२) इत्यनेन यण, अङ्गस्य एकाच्त्वात्। ननूभयत्रापि सम्प्रसारणे कृते मातो लोपः । तस्य स्थानिवद्भावादियकुवङो न भविष्यत इति चेत् ? स्यादेवम् । यद्यातोलोपो लभ्येत । स तु दुर्लभः, अन्तरङ्गेण पूर्वत्वेन बाधात् । न च "वार्णादाझं बलीय(प०मा०५६), व्याश्रयत्वादान. न्वेवमपि व्यर्थमेव वार्तिकम्, प्रागेव सम्प्रसारणादातो लोपे कृते तस्य स्थानिवद्भावादसिद्धत्वाद्वा उवङोऽप्रवृत्ती यणादेशेन 'आव्ह' 'प्रहः'

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510