Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 450
________________ धात्वधिकारे कृत्प्रकरणम् । ४४१ राजा। इह सूत्रे 'दृ विदारो (क्रया०प०२१) इत्यस्य ग्रहणं, न तु 'ह भये' (भ्वा०प०८१०) 'दृक् आदरे' (तु०मा०१३१) इत्येतयोरित्युपदेशः। सहिग्रहणमसंक्षार्थम् । संहायान्तु "भृतजि" (पासू०ए०३-२-४६) इत्यादि वक्ष्यति । "मगे च धारेरिति वक्तव्यम्" इति काशिका । भाग्यादावरष्टम. पीदं बाहुलकेन लभ्यते । भगं दारपतीति भगन्दरः। ___ सर्पकूलानकरीषेषु कषः (पासू०३-२-४२) ॥ एषु चतुर्षु कर्मसू. पपदेषुः कषेः खन् स्यात् । सर्वकषः खलः । कूलङ्कमा नदी। अम्रको वायुः । करीषकषा पात्या। मेघर्तिभयेषु कृषः (पा०सू०३-२-४३) ॥ एषु त्रिषु कर्मसूपपदेषु करोतेः खच् स्यात् । मेघङ्करः । ऋतिङ्करः । भयङ्करा । उपपदविधौ भयादिग्रहणं तदम्तविधि प्रयोजयतीत्युक्तत्वात् अभयङ्करः । क्षेमप्रियमद्रेण च (पा०सू०३-२-४४)॥ त्रिग्वेषु कर्मसूपपदेषु करो. तेरण स्याउचात्खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः। प्रियकारः। मद्रङ्करः । मद्रकारः । वेति वक्तव्ये अण्ग्रहणं हेत्वादिषु टप्रतिषेधा. र्थम् । कथम्तर्हि अल्पारम्भाः क्षेमकराइतिकर्मणः शेषत्वविवक्षायां पवाद्यच् भविष्यति । छन्दसि 'शिवङ्करः' इत्यपि दृश्यते । तथा चायर्वशाखायां शिव एको ध्येयः शिवङ्करः सर्वमन्यत्परित्यज्य'इति । कर्तृव्यत्ययात्सिवम् । आशिते भुवः करणभावयोः (पा०स०३-२-४५) ॥ अत्र 'सुपि'इत्युः पतिष्ठते न तु 'कर्मणि'इति, भवतेरकर्मकत्वात् । यद्यपि सोपसर्गस्य प्राप्त्यर्थस्य च भवतेः सकर्मकत्वमस्ति तथापि तत्र खचा न भवित. व्यमनभिधानादित्याहुः। ___ आशितशब्दश्च द्विविधोऽत्र गृह्यते । 'अश भोजने (क्या०प०५१) इत्यस्मादापर्वादविवक्षिते कर्मणि कर्तरि क्तप्रत्ययान्त एकः । अशे. य॑न्तात्प्रयोज्यकर्मणि क्तप्रत्यये कृते अपरः । “माशितः कर्ता"(पा० सू०६-१-२०७) इत्याधुवाचषिधिरप्युभयोरविशिष्टः । तत्र द्वितीये प्रयोज्य एव भूतपूर्वगत्या कर्कोच्यते । प्रत्यवसामार्थानामणो कर्तुंर्णी कर्मसंज्ञाविधानात्। "कृषन्नित्फालआशितं कृणोति" इत्यत्रापि अयमेव प्राह्यः। अवप्रहावर्शनात । आधे तु साम्प्रतिकमेव कर्तृत्वम्।यस्तु"ध्रौ. व्यगतिप्रत्यवसानार्थेभ्यः" (पा०स०ए०३-४-७६) इति भाषकर्माधिकर. णेषु का, तदन्तो नात्र गृह्यते, अनभिधानात् । सुत्रार्थस्तु आशित. शब्दे सुबन्त उपपदे भवतेर्धातोः करणे भावे चार्थे स्वच् स्यात् । आ

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510