Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 451
________________ ૪૧૨ शब्द कौस्तुभतृतीयाध्याय द्वितीयपादे प्रथमान्हिके शितो भवत्यनेन आशितम्भव ओदनः । यावता ओदनेन अतिथ्यादिभजितो भवति स एवमुच्यते । भावे- आशितस्य भवनमाशितम्भवः । इद्द "वासरूप" (०सू०३ - १ - ९४ ) विधिना ल्यूडपि भवति । 'आशि तभवनम्' इति । घञ् तु बाध्यते एव, सरूपत्वादित्याहुः ! न चात्र "तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्न” ( प०४०७०) इति निषेधः : शङ्कयः, यत्र हि घञादेरपवादत्वेन ल्युट् प्रसक्तः, उत्सर्ग नित्यं बाधते न तु विकल्पेनेति तदर्थः । इह तु ल्युटोऽपवादोऽयं खच् । तत्र वासरूपन्यायो निर्बाध एव । 'आशितभवनम्' इत्युदाहरतो जयादिश्यस्य सम्मतश्चेति दिक् । संज्ञायां भृतृवृजिधारिसहितपिदमः (पा०सु०३-२-४६ ) ॥ भृप्रभृ. तिभ्योऽष्टभ्यः यथायोगं कर्मणि सुबन्ते चोपपदे खच् स्यात्संहायाम् । विश्वं बिभर्तीति विश्वम्भरः कैटभजित् । "रसा विश्वम्भरा स्थि: रा'' (अ०को०२-१-२) । रथन्तरं साम । रथेन तरतीति व्युत्पत्तिमात्रम्, स्वरसंस्कारावग्रहादिसिद्ध्यर्थम् । न त्वत्रावयवार्थानुगमोऽस्ति, "रथः स्तरमाजभारा वसिष्ठः" इत्यत्र हि रथमित्यवगृह्णन्ति । अन्तोदात्तं चाश्रीयते । अखण्डत्वे तु अवग्रहो न स्यात् । " नन्विषयस्व" ( फि०सु० २६) इत्याद्युदात्तञ्च स्यात् । पतिवरा कन्या । शत्रुञ्जयो हस्ती । युग. स्वरः पर्वतः । शत्रुंसहः । शत्रुन्तपः । अरिन्दमः । अन्तर्भावितण्यर्थोऽत्र दमिः । संज्ञायां किम् ? कुटुम्बं बिभर्तीति कुटुम्बभारः । ". 4 गमश्च (पा०सु०३-२-४७) ॥ मस्मात् खच् स्यात्कर्मण्युपपदे संज्ञायाम् । सुतङ्गमः । पूर्वसूत्रे एव गमिनकः । उत्तरसूत्रे गमेरेवानुवृत्तियथा स्यात्, भृत्प्रभृतीनां मा भूदिति । अन्तात्यन्ताध्वदुरपार सर्वानन्तेषु डः (पा०सु०३-२-४८) ॥ 'संज्ञायाम्' इति निवृत्तम् । सप्तसु कर्मसूपपदेषु गमेर्डः स्यात् । अन्तं गच्छ तीत्यन्तगः । अत्यन्तगः । अध्वगः । दुरगः । पारगः । सर्वगः । अन: न्तगः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । I सर्वत्रपन्नयोरुपसंख्यानम् (का०वा० ) ॥ सर्वत्रगः । पनं पतितं यथा स्यात्तथा गच्छतीति पन्नगः । 'पन्नम्' इति क्रियाविशेषणं पठ्यते कान्तम् । उरसो लोपश्च (का०वा० ) ॥ उरसा गच्छतीत्युरगः । सुदुरोरधिकरणे (का०वा० ) ॥ सुखेन गच्छत्यत्रेति सुगः । दुर्गः । कर्मणि तु खलेव । सुगमः । दुर्गमः । निरो देशे (का०वा० ) ॥ निर्गो देशः । अन्यत्रापि दृश्यते इति वक्तव्यम् (का०वा० ) । ग्रामगः । गुरुतल्पगः ।

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510