Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 448
________________ धात्वधिकारे कृत्प्रकरणम् । ४३९ परिमाणनिष्ठा एव स्युस्तहि विक्लेदनवाचिना पचिना सह कमवा. सम्भव एष । अतः परिमिते बीहादो वर्तमाना इह प्रायाः। मितनखे च (पा०स०३-२-३४) ॥ एतयोः कर्मणोः पचः खर स्यात् । मितंपचा ब्राह्मणी । नखंपचा यवागू पचिरत्र तापवचनः । विध्वरूषोस्तुदः (पा०स०३-२-३५) ॥ एतयोः कर्मणोरुपपदयोस्तु देर्धातोः खश् स्यात् । विधुं तुदतीति विधुन्तुदः । अनन्तुदः । “अरुर्विषदजन्तस्य मुम्" (पा०स०६-३-६७) इत्युकारात्परो मुम् । “संयोगा। न्तस्य लोपः" (पासु०८-२-२३) । “लैहिकेयो विधुन्तुद' (अ०को० १-३-२८) । " व्रणोऽस्त्रियामार्ममरुः" (म०को०२-६-५४) "अरुन्तुदंतु मर्मस्पृक्' (अ०को०३-१-८१) इत्यमरः। . ___ असूर्यललाटयोरशितपोः (पासू०३-२-३६) ॥ एतयोः कर्मणोरुपः पदयोर्यथासङ्ख्यं दृशितपिभ्यां खश् स्यात् । 'असूर्यम्' इत्यसमधला मासः, इशिना नः सम्बन्धात् । सूर्य न पश्यन्तीत्यसूर्यपश्या: राज. दाराः । “पाघ्रामा' (पा०सु०७-३-७८) इति पश्यादेशः। गुप्तिपरचे. दं । एवञ्च नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यतीति । तेम सत्यपि सूर्यदर्शने प्रयोगो न विरुध्यते । यदा तु सूर्यदर्शनाभावमा विवक्षितं तदा न भवितव्यमेव प्रत्ययेनानामधानादिति न्यासकारः। उग्रम्पश्येरंमदपाणिन्धमाश्च (पासू०३-२-३७)॥ एते नित्यन्ते । 'उग्रम्' इति क्रियाविशेषणं, तस्मिन्नुपपदे शेः खम् । उग्रं पश्यती. त्युग्रम्पश्यः । इरा उदकं तेन माधति दीप्यते अबिन्धनत्वादिति दरम्म दो मेघज्योतिः । मदी हर्षे (दि०५०१०२), अस्मादेव निपातनात् "दि. वादिभ्यः श्यन्" (पासू०३-१-६९) भवति । पाणयो ध्मायन्तेऽस्मिा निति पाणिन्धमोऽध्वः । स पुनरस्मिन् गच्छद्भिः सपाचपनोदनाय पा. णयः शब्द्यन्ते ताशः अन्धकाराखावृतो मार्गः। प्रियवशे वदः खच (पासू०३-२-३८) ॥ 'प्रिय' 'वश' इत्येतयोः कर्मणोरुपपदयोर्वदर्धातोः खच् स्यात् । प्रियंवदः । वशंवदः । खकारो मुमर्थः चकारस्तु "स्वचि -हस्वः" इति विशेषणार्थ इति वृत्तिः । “खे हस्व." इत्युच्यमाने "एजेः खश्” (पा०सु०३-२-२८) जनमेजयः, अ. त्रापि स्यादिति भावः । ननु एकानुबन्धकग्रहणे न व्यनुबन्धकस्येति खशिन भविष्यति । न चैवमपि "कुलाखः" (पासू०४-१-१३९) कु. लीनः, “यस्य" (पासू६-४-१४८) इति लोपाप्रवृत्तये न्हस्वः स्यादिति वाच्यम्, प्रकरणसाहचर्याद्धातुप्रत्ययस्यैव ग्रहणात् । किश्च "दोषोणी" (पासू०६-४-९०) इति सूत्रादत्र णावित्यनुवर्त्य खे परे णौ -हस्वो

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510