Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 438
________________ धात्वधिकारे कृप्रकरणम् । ४२९ इत्यादेः सिद्धत्वात् । तथाहि - नित्यं सम्प्रसारणम्, आतो लोपे कृते अकृते प्रसङ्गित्वात् । आल्लोपस्तु कृते च सम्प्रसारणे यद्यपि पूर्वत्वेन बाध्यते तथापि "यस्य च निमित्तं लक्षणान्तरेण न विहन्यते तदपि नित्यम्" इति नित्य एव । द्वयानित्ययोः परत्वादालोपः, ततः सम्प्र• सारणं, तत इयङ्ङुवङौ प्रसक्तौ आतो लोपस्य स्थानिवत्त्वान्न भविष्यतः। न च अनादिष्टादचः पूर्वश्वं नास्तीति वाच्यम्, स्थानिद्वारकस्य सत्त्वात् । यत्विह कैयटेनोक्तं शास्त्रीयकार्यसिद्धये स्थानिवद्भावो विधीयते न त्वनादिष्टादचः पूर्वत्वे लौकिके इति, तदापाततः, "अचः परस्मिन्" ( पा०सु०१-१-५७ ) इत्यतिदेशस्याशास्त्रीयतया तस्यैव "स्थानिवत्" ( पा०सु०१ - १ - ५६) सूत्रेणातिदेशः सम्भवतीति "न पदान्त" (पा०सू० १-१-५८) सूत्रीयसवर्णग्रहणाद्युपष्टम्भेन प्रागेव वर्णितत्वात् । किञ्चा कारलोपस्य आभीयत्वेनासिद्धत्वान्न दोषः । न चैवं 'जुहुवतुः' 'जुहुवुः' अत्राप्युवङ् न स्यादिति वाच्यम्, स्थानिद्वारकस्य अनादिष्टादचः पूर्वत्वस्य आभीयासिद्धत्वस्य च अनित्यत्वेनेहाप्रवृत्तेः । अथवा "स. म्प्रसारणाच्च” “एङः पदान्तातु" (पा०सू०६-१-१०८, १०९) इत्यत्र 'एङः' इति योगो विभज्यते । सम्प्रसारणादेङि परे पूर्वपरयोः पूर्व एकादेशो भवतीति । सम्प्रसारणाच्वेत्येव सिद्धे शापनार्थमिदम्-यत्र सम्प्रसारणात्पर एड् सम्भवति तत्र अनैमित्तिकत्वेनान्तरङ्गमप्यात्वमकृत्वा सम्प्रसारणं कर्तव्यमिति । तेन 'जुहुवतुः' इत्यत्र एङन्तादेव लिटि विहिते सम्प्रसारणं पूर्वत्वम् । ततश्च न स्थानिवत्त्वं नाप्यसिद्धत्वमिति सिद्धमिष्टम् । 'मह' 'प्रह्नः' इत्यत्र तु आकारान्तलक्षणः प्रत्ययो असत्यात्वे कर्तुमशक्यः । अतः पूर्वमात्वम् । ततः प्रत्ययः, आल्लोपः, सम्प्रसारणं, स्थानिवद्भावादसिद्धत्वाद्वा इयकुवङोरभावः । तस्मान्मास्तु वार्त्तिकमिति चेत् ? सत्यम्, इत्थं प्रत्याख्यातमेव भाष्ये, किन्तु अस्ति वार्त्तिकस्योतिसम्भवः । "आभात्" ( पा०सु०प०६-४-२२) सुत्रप्रत्याख्यानपक्षे हि स्थानिवत्त्वमेव शरणम् । तत्र च स्थानिद्वारकमनादिष्ठादचः पूर्वत्वमाश्रयणीयं तथा नित्यमिति ज्ञापयितुमिदं वा• र्त्तिकमिति । एतत्प्रत्याख्यातुं प्रवृत्तो भाग्यकारोऽपि स्थानिवद्भावमु. पन्यस्य दूषयित्वा असिद्धतां शरणीकुर्वन् स्थानिद्वारिकायाः अनादिष्टादचः पूर्वतायाः काचित्कतां ध्वनयति । तत्फलन्तु "मचः परस्मिन्" (पा०सू०१-१-५७) इति सूत्रे पवावोचामेत्यलं बहुना । सुपि स्थः (पा०सु०३-२-४) ॥ सुबन्ते उपपदे तिष्ठतेर्धातोः का प्रत्ययः स्यात् । समस्थः । विषमस्थः । अत्र 'सुपि' इति योगो विभ

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510