Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 440
________________ धात्वधिकारे कृत्प्रकरणम्। ४३१ पनुदः सुखस्याहर्ता । यस्तु संसारासारत्वाद्युपदेशेन शोकमेव केवल. मपनुदति न तु सुखमुत्पादयति स शोकापनोदः । कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (का०वा०) ॥ तादय एषा चतुर्थी । मूलविभुजादिसिध्यर्थमित्यर्थः । मूलानि विभुजतीति मूलविभुजो रथः । नखान्मुञ्चतीति नखमुचानि धनूंषि । को मोदते कुमुदं सरोरुहम् । इह यद्यपि 'काकगुहास्तिला' इति भाज्यवृत्यादिषु उदाहतं तथापि काकेभ्यो गहितव्या इति कर्मार्थावगतेः "घअर्थे कवि. धानम्" (का०वा०) इत्यत्रेदं द्रष्टव्यमिति हरदत्तः।। आकृतिगणोऽयम् । तेन महीध्रकुभ्रशिरोध्रशिरोरुहादि सिचम् । प्रे दाहः (पासू०३-२-६) ॥ दारूपाजानातेश्च प्रोपवृष्टाकर्मण्यु. पपदे कप्रत्ययः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रक्षः । प्रे इति किम् ? गोसन्दायः । अनुपसर्ग इत्यनुवृत्तेः प्रेत्यस्मादन्यस्मिन्नुपसर्गे सति को न भवति, किनवणेव, गोसम्प्रदायः । इह वृत्तौ ददातेरित्युकं, सनु सर्वेषां दारूपाणामुपलक्षणम् । गामादाग्रहणेवविशेषादिति हरदत्तः। समि ख्यः (पा०स०३-२-७) ॥ सम्पूर्वाख्या इत्यस्मारकर्मण्युपपदे कप्रत्ययः स्यात् । गाः सञ्चष्टे गोसंख्यः । चक्षिङः ख्यामादेशः । 'ख्या प्रकथने (अ०प०५०) इत्यस्य तु सम्पूर्वस्य प्रयोगो नास्तीति न्यासकारः। गापोष्टक् (पासू०३-२-८) ॥ आभ्यां टक् स्यादनुपसर्गे कर्मण्युप. पदे । सामगः । सामगी । अत्र वार्तिकम् सुराशीध्वोः पिबतेरिति (का०वा०) ॥ अत्र पिबतेरिति लुग्विकरणपरिभाषालब्धार्थकथनम् । उपपदपरिगणनन्तु वाचनिकमेव । सुरापः । सुरापी। शीधुपः । शीधुपी । सुराशीध्वोः किम् ? क्षीरपा ब्राह्मणी । पिबतेरिति किम् ? सुगं पाति रक्षतीति सुरापा। अनुपसर्गे किम् ? सामसङ्गायः। गामादाग्रहणेचविशेषेपिगै शब्दे (भ्वा०प०९४२) इत्यस्यैवात्र प्रहणं न तु 'गाङ् गती'(भ्वा० आ०९७)इत्यस्य सानुबन्ध. स्य, नापि 'गा स्तुती, (जु०प०२४) इति जुहोत्यादेः, निरनुबन्धेन अलु. तविकरणेन च पिबतिना साहचर्यात्, अनभिधानाहा। बहुलं तणि (का०या०) ॥ या ब्राह्मणी सुरापा भवति नैतां देवाः पतिलोकं नयन्ति । हरतेरनुधमनेऽन् (पासू०३-२-९) ॥ उत्क्षेपणादन्यस्मिन्नर्थे वर्त मानाखरतर्धातोः कर्मण्युपपदेऽच् स्यात् । अणोऽपवादः । अंशहरः । रिक्थहरः । अनुधमने किम् ? भारहारः । अप्रकरणे शकिलागलाक्कुशतोमरयष्टिघटघटीधनुषु प्रारुप.

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510