Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 444
________________ धास्वधिकारे कृत्प्रकरणम् । केन सूत्रबाधादृस्याभावात् 'किंकरी' इत्यसाधुरिति कैयटः। हेत्वादा. वपि टं बाधित्वा परत्वादजेवेति तस्याशयः । वृत्तौ तु पक्षान्तरमप्यु: कम्-अथ वा पचाविपाठः करिष्यते इति । इह किमादिग्रहणमपनीय पचादिष्वेव किंयत्तद्वहुषु कृत्रिति पठितव्यमिति तस्यार्थः । वार्तिक. मपीथमेव व्याख्येयमित्याशयः । अस्मिन्पक्षे हेत्वादिविवक्षायां पर. स्वाट्टेन भाव्यम् । तेन किंकरणशीला 'किंकरी' इति भवत्येव । पुंयोगविवक्षायां तु निर्विवादो ङीष् । किंयत्तद्वहुवज्वेति प्रक्रिया. यां विकल्पोक्तिस्तु आकरविरुद्धत्वात्कर्मण्यणोऽपि पक्षे प्रसङ्गाचायु. तैव । न चाजभावे सौत्रष्टः, सूत्रे किमादिग्रहणापनयनस्य हरदत्तादि. भिरुक्तत्वात् । अथवा सौत्रस्थापनयनं मास्त्विति प्रौढिवादेन नेया, ताच्छील्यादौ व्याख्यानभेदात् फलितं विकल्पमाश्रित्य विषयविशेषा• भिप्रायेण कथंचिद्वा नेया। ___ कर्मणि भृतौ (पासू०३-२-२२) ॥ कर्मशब्दे कर्मण्युपपदे करोतेष्टः स्याद् भृतो गम्यमानायाम् । भृतिवेतनम् । कर्म निशाक्रियायाः नि. कयाय देयं मकादि द्रव्यमिति यावत् । कर्मकरोभृतकः। कर्मकारोऽन्यः। ___ न शब्दश्लोककलहगाथावरचाटुसूत्रमन्त्रपदेषु (पा.सु०३-२-२३)। एखूपपदेषु करोतेष्टो न स्यात् । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शन्दका. । श्लोककार इत्यादि। ___ स्तम्बशकतोरिन् (पा०सू०३-२-२४) ॥ एतयोः कर्मणोरुपपदयो। करोतरिन्प्रत्ययः स्यात् । वीहिवत्सयोरिति वक्तव्यम (कावा०) ॥ स्तम्बकरिवीहिः । शुक. स्करिवत्सः । इनो निस्वास्कृदुत्तरपदप्रकृतिस्वरेणोत्तरपदमाधुदासम् । वीहिवत्सयोः किम् ? स्तम्बकारः।शकस्कार। हरतेतिनाथयोः पशौ (पा०स०३-२-२५) ॥ इतिनाथयोः कर्मणो. रुपपदयोहरतेर्धातोः पशो कर्तरि इन् प्रत्ययः स्यात् । • एति हरतीति इतिहरिः । नाथं नासारज्जु हरतीति नाथहरिः । इह प्रत्ययार्थस्य क. तुः पशुर्विशेषणं न तु तस्य बाधकः, प्रकृतिप्रत्ययार्थयोरन्वयप्रसङ्गात् । प्रकृत्यों हि प्रत्ययार्थ विशिनष्टि । प्रकृतिश्चेह धातुः। तद. र्थश्च किया। सा च साधनेन सम्बन्धाहीं । पशुशब्दस्तु चतुष्पाजातीयं वस्तु स्वरूपेणाचष्टे न शक्तिमद्रण, नतरां शक्तिरूपेण । अतस्तथैव च प्रत्याग्यमानः पशुः प्रत्ययार्थो भवितुं नाईति । अतः कव प्रत्ययार्थः। तद्विशेषणं च पशुः सत्रवाक्यजन्ये बोधे पशुरूपे कर्तरि वाच्ये प्रत्ययो भवतीति हि विषयः ।

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510