Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४३०
शब्द कौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिके
ज्यते । सुपि आकारान्तेभ्यो धातुभ्यः कप्रत्ययः स्यात् । द्वाभ्यां पिवतीति द्विपः ।
स्थः ॥ सुपि तिष्ठतेः कः स्यात् भावे । आखूनामुत्थानमाखूत्थः । प्रक्रिया कौमुद्यान्तु 'आखूत्थम्' इति नपुंसकं पठ्यते तत्प्रामादिकम्, भाष्यादौ सर्वत्र पुल्लिङ्गस्यैवोदाहृतत्वात्,
ल्युः कर्त्तरीमनिज् भावे को घोः किः प्रादितोऽन्यतः । ( अ०को ०३ - ५ - १५ ) इत्यमरकोशाद्भावे कस्य पुंस्त्वविधानाच्च, भावे "नणकचि योऽन्यः” इति नपुंसकविधाने कस्य पर्युदासाश्च । ननु " स्थः" इति सूत्रेण विधीयमानोऽपि कः कृत्वात्कर्त्तर्येव स्यादिति चेत् ? न, "आतः” (पा०सू०३-२-३) इत्यनेनैव सिद्धेः । तथा च 'स्थः' इत्यारम्भसामर्थ्यान्न कर्त्तरि किन्त्वनिर्द्दिष्टार्थत्वात्स्वार्थे । धातोश्च स्वार्थी भाव एव । नन्वेवं " घञर्थे कविधानम्" (का०वा० ) इत्यनेनैव गतार्थत्वमिति चेत् ? न, वार्त्तिकं दृष्ट्वा सुत्रकृतोऽप्रवृत्तेः । किञ्च नित्यसमासार्थमिदम् । अन्यथा हि " षष्ठी" ( पा०सू०२-२-८ ) इति सूत्रेण पाक्षिकः समासः स्यात् । इष्यते तु नित्यमुपपदसमासः । तथा च आखूनामुत्थानमिति अस्वपदविग्रहः क्रियते । " घञर्थे कविधानं स्थास्नापाव्यधिह नियुध्य. र्थम् इत्यत्र स्थाग्रहणन्तु कर्तृवर्जिते कारके यथा स्यादित्येवमर्थम् ।
इत ऊर्ध्वं कर्मणि सुपीति च द्वयमप्यनुवर्त्तते । तत्र सकर्मकेषु कर्मणीत्युपतिष्ठते "स्पृशोऽनुदके" (पा०सू०३ - २-५८) इति यावत् । अन्यत्र सुपीति "सुप्यजातौ णिनिः” (पा०सु०३-२-७८) इति यावत् । एवञ्च प्रकृतस्य सुब्ग्रहणस्य उपसर्गेतरपरत्वं "सत्सूद्विष" (पा०स्० ३-२-६१) इति सूत्रस्थेन' उपसर्गेऽपि' इत्यनेन ज्ञापितमिति सुपमात्र प रिग्रहार्थे णिनिविधौ पुनः सुप्ग्रहणमिति वक्ष्यामः ।
-
तुन्दशोकयोः परिमृजापनुदोः (पा०सु०३-२-५) ॥ तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदिभ्यां धातुभ्यां कप्रत्ययः स्यात् ।
आलस्यसुखाद्दरणयोरिति वक्तव्यम् (का०वा० ) || आलस्ये सुखोत्पादने च गम्यमाने प्रत्यय इत्यर्थः । तत्र सामर्थ्यादलसे कर्त्तरि सुखस्य चाहर्त्तरि प्रत्यय इति फलितं भवति । तुन्दं परिमाष्टति तुन्दप रिमृजोऽलसः ।
अत्र मृजेरजादाविति वैकल्पिकी वृद्धिर्नेति हरदत्तः । भवतीत्यपरे । एतन्मतद्वयबलाबलं तु "ङ्किति च" ( पा०सु०१-१-५) इति सूत्रे प्रतिपादितम् । अलसादन्यत्र 'तुन्दपरिमार्जः' इत्येव भवति । शोका
·

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510