Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 436
________________ धात्वधिकारे कृत्प्रकरणम् । ४२७ णाचारा । कल्याणशब्दो "लघावन्ते' (फि०सू०४२) इति मध्योदात्तः। इक्षिक्षमिभ्यां चेति वक्तव्यम् (काल्वा०) ॥ अत्रापि पूर्वपदप्रकृतिस्व. रत्वं चेति सम्बध्यत एव । वाक्यभेदस्तु वैचित्र्यार्थः । सुखप्रतीक्षा । बहुक्षमा । स्यादेतत् । यो मांस भक्षयति तस्य मांसं भक्षो भवति । तत्र भक्षयतेः कर्मण्येरजन्तस्य बहुव्रीहिणा सिद्धम् । एवमन्यत्रापि । यस्तु अण्यन्तस्तस्य घनन्तस्य बहुव्रीहिः । न च 'बहुभक्षः' इत्य. "बहोर्नवत्" (पासू०६-२-१७५) इति उत्तरपदान्तोदात्तत्वं स्यादिति वाच्यम् , भावे अजन्तेन बहुषु भक्षोऽस्येति विग्रहोपपत्तेः । न ह्यत्र बहुस्वरप्राप्तिरस्ति, उत्तरपदार्थस्य बहुत्वाभावात् । एवञ्च वातिकद्वयमपि नारम्भणीयमिति चेत् ? मैवम् , कर्मण्यणं बाधितुं तस्याव. श्यारभ्यत्वात् । अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन (काभ्वा०) ॥ पचादि. भ्योऽच् अनुपपद अकारः, तस्यावकाशः-पचतीति पचः । कर्मोपप. दस्थावकाश:-काण्डलावो वजति । 'ओदनपाचः' इत्यत्र उभयप्रस. ले परत्वादणेव । तेनोपधावृद्धिः उपपदसमासश्च नित्यो भवति । अ. चि तु षष्ठीसमासो वैकल्पिकः स्यात् । कथं तर्हि गङ्गाधरः' 'श्रीधर वज्रधरः' 'भूधरः स्रग्धरः' इत्यादि ? __ अत्र केचित-युगपद्विवक्षायां हि भवतु विप्रतिषेधः, केवलप्र. कृत्यर्थविवक्षायान्तु अचि कृते पश्चात्कर्मसम्बन्धे सिद्धं रूपमिति । __अत्र हरदत्तः-एवं सति 'ओदनपचः' इत्यपि स्यात्, तच्चानिष्टम् । किञ्चोकरीतियायविरुद्धा, एकत्वात्प्रयोगस्य । न हि तस्मिन्नेव प्रयोगे विवक्षितं चाविवक्षितं च कर्म भवति । तस्मात् 'ओदनपच'इस्यसाधु. रेव । गङ्गाधरादयस्तु संज्ञाशब्दा इत्याह । अत्रेदं वक्तव्यम, परिनिष्ठिते प्रयोगे कर्मान्वयसस्वेऽपि प्रक्रियाद. शायां क्रमेण विवक्षायां न क्षतिः । कथमन्यथा शक्यश्चेत्यादौ अन्तरजः पदसंस्कारो बहिरङ्गनीत्वेन न विहन्ये तेत्यादि तत्र तत्रोच्यते । किश कर्मणः शेषत्वविवक्षयाऽपि गङ्गाधरादिशब्दानां सौष्ठवे सम्भव. ति रथन्तरादिवन केवलं संज्ञात्वमाश्रयितुं युक्तम् । आदनपचशब्दो. ऽपि उकरीत्या प्राप्नोत्येव । यदि त्वस्यासाधुत्वे प्रमाणमस्ति तहन. भिधानं शरणीक्रियतामित्यास्तां तावत् ।। प्रकृतमनुसरामः-पचादिभ्य पवाजिति यथाश्रुतस्त्रमनुसृत्य विप्रतिषेध उदाहृतः । यदा तु 'अजपि सर्वधातुभ्यः' इति पक्षस्तदा

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510