Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कस्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथ,प्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च । दाक्षिण्यीति दमीति नीतिभृदिति स्थै-ति धैर्योति सद्, धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया ॥२॥ व्याख्या-कल्या०॥ कल्याण:-शुभः, अभिनिवेशः-मनःपरिणामो यस्येति कल्याणाभिनिवेशवान् इति । गुणग्राहीति। मिथ्यापथस्य -कुमार्गस्य प्रत्यर्थी-वैरी, इति । विनीत इति । अशठः-सरल(इति) औचित्यकारीति-योग्यताकारीति । च-पुन: दाक्षिण्यीति । दमी-जितेन्द्रिय इति । नीतिभृत्-न्यायमार्गधारक इति। स्थै-- स्थिरत्ववान् इति । धैर्या-धीरत्ववानिति । सद्धर्मस्यार्थीति । विवेकवानिति । सुधी:सुबुद्धिरिति । हे शिष्य ! एवंगुणविशिष्टस्त्वम्, अत एव मयोच्यसे त्वमिति, त्वां प्रत्यहं वच्मीति काव्यार्थः ॥२॥ इह किल कलिकालव्यालवक्त्रान्तराल-स्थितिजुषि गततत्वप्रीतिनीतिप्रचारे। प्रसरदनवबोधप्रस्फुरत्कापथौघ,-स्थगितसुगतिमार्गे सम्प्रति प्राणिवर्गे ॥ ३ ॥ प्रोत्सर्पद्भस्मरासिग्रहसखदशमाश्चर्यसाम्राज्यपुष्य,मिथ्यात्वध्वान्तरुद्धे जगति विरलतां यति जैनेन्द्रमार्गे । सक्लिष्टद्विष्टमूढप्रखलजडजनाम्रायरक्तर्जिनोक्ति, प्रत्यर्थी साधुवेषैर्विषयिभिरभितः सोऽयमप्राथि पन्थाः ॥ ४ ॥ व्याख्या-इह० ॥ प्रो०॥ विषयिभिः-विषयसेवकैः साधुवेषैः-लिङ्गधारिभिर्हानाचारैः चैत्यवासिभिः अभितः-समन्तात् सोऽयं पन्था-मार्गः अप्राथि-विस्तारितः। क सति ? सम्प्रति इह-दुष्पमाकाले किलेति सत्ये प्राणिवर्ग एवं विधे सति । कथम्भूते प्राणिवर्गे ? कलिकाल एव-दुषमाकाल एव व्याल:-सर्पस्तस्य वक्त्रान्तरालं-मुखान्तरालं, तत्र स्थितिः-स्थानं तां जुषते-सेवते यः सः। पुनः कथम्भूते १ गततत्वप्रीतिनीतिप्रचारे-गतो तत्वप्रीतिः, नीतिप्रचारश्च न्यायप्रचारस्तौ यस्य सः। पुनः कथम्भूते ? प्रसरत्-प्रसरणशीलो योऽनवबोध:-अज्ञानं तेन प्रस्फुरत्कापथौधः-कुमार्गसमूहस्तेन स्थगित:-आच्छादितः सुगतिमार्गः-देवगत्यादिसम्बन्धो यस्य सः ॥३॥ पुनः क सति ? जगति जैनेन्द्रमार्ग विरलतां याति सति । कथम्भूते जैनेन्द्रमार्गे ? "प्रोत्सर्प" प्रोत्सर्पन्-उल्लसत् यः भस्मराशिग्रहस्तस्य सखा-मित्रं यद्दशमाश्चर्यम्असंयतिपूजालक्षणं तस्य साम्राज्यं तेन पुष्यन्-प्रवर्द्धन मिथ्यात्वमेव ध्वान्तं-तमस्तेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132