Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राग्वर्णितस्वरूपे ' दुरध्वे " कुमार्गे 'कारुण्यात्' मास्मामी ब्रूडन् जडा अस्मिन् कुपथ पत इति दयाऽध्यवसायात् ' य:' कश्चिन्महासवो 'नृषु' लिङ्गिभावनामावितेषु मर्येषु 'कुबोधं ' कुदेशनोत्पादितमसत्पथेपि सत्पथभ्रमं 'निरसिसिषु' विमित्सुः । यदि हि कथञ्चिदमीषां मूढानां दुरध्वदोषसामस्स दर्शनेनायं कुबोधो विध्वंसते तदाऽमी उपकृता भवन्तीत्याशयेन 'दोषसख्या ' दूषणेयत्ता 'विवक्षेत' अभिघित्सेत् , एतावत् सख्या अत्र कुमार्गे दोषाः सन्तीति वक्तुमिच्छेदित्यर्थः। स पुमान् ' अम्मो' जलं अम्मोधे-रणवस्य जलं 'प्रमित्सेत् ' इयदत्राम्भ इति धुलुकादिभिः संचिख्यासेत् । जलधिजलप्रमित्सानिदर्शनेन दुरध्वदोषाणामसङ्ख्येयतासिद्ध्या अपरितुष्यन् विवक्षितानन्त्य चिख्यापयिषया निदर्शनान्तरमाह-'सकलगगनोल्लङ्घनं' पद्धयां समग्रान्तरिक्षान्त प्रापणं, चेति पक्षान्तरे, विधित्सेत्-चिकीर्षत । अयं च निदर्शननामालङ्कारः। ततोऽयमर्थ:-यथा सागराम्भोऽतिभूयस्त्वात् प्रमातुमशक्यं, तथा दुरध्वस्य महामिथ्यात्वरूपस्य लोकोत्तरविरुद्धासमञ्जसचेष्टित-शतसहस्रसम्भृसंवृ]तत्वात् तद्दोषसङ्ख्याऽप्यतिवाहुल्याद्वक्तुमशक्येति, अतो दिङ्मात्रमेवोदाहृतं, तावन्मात्रेणापि केषाश्चित्पुण्यात्मनां मोहापोहेन सत्पथाभ्युपगमो भविष्यतीति धियेति वृत्तार्थः ॥ ३५ ॥
ननु-उक्तन्यायेन लिङ्गिनः चेत् यतयो न भवन्ति तर्हि न सन्त्येव, कचित्सम्प्रति श्रुतोक्तलक्षणभाजो यतयोऽदर्शनात् , तथा च ज्ञानदर्शनाभ्यामेव भगवत्तीर्थमनुवर्तत इति मन्यते तं प्रत्याह-तथा
न सावधाम्नाया न बकुश-कुशीलोचित-यतिः ।। ३६ ।।
व्याख्या-तथेति, यथा सम्प्रति भूयांसो लिङ्गिनः सन्ति ' तथा ' तेन प्रका. रेण विरलाः सुविहिता अपि, इत्येतदेवाह-तेऽद्यापि स्युरिह यतय इति सम्बन्धः। • आम्नायो' गुरुशिष्यप्रतिशिष्यादिक्रमेण सम्प्रदायः 'सावद्यः' प्राग्वर्णित औदेशिकभोजनाद्युपभोगादेः सपाप आम्नायो येषां ते तथा, नना तेषां निषेधः। अधुनातनरूढ्यौदेशिकभोजन-चैत्यवासादिना सावद्यसम्प्रदायवन्तो येन भवन्ति, तथा 'चकुशं' शबल-मतिचारपङ्कन समलं, प्रक्रमाचारित्रं, ततश्च बकुशचारित्रयोगात्साधवोऽपि चकुशाः ते च द्विविधा-उपकरण-देहभेदात् । तत्रोपकरणबकुशा ये वर्षाप्रत्यासत्ति-मन्तरेणापि कदाचित् वस्त्रादिकं धावन्ति, लक्ष्णायंशुकादि च जिघृक्षन्ति कदाचित्परिदधते च, पात्र. दण्डकायपि घृष्टं तैलादिम्रक्षणोत्पादित तेजस्कं च धारयन्ति, उपकरणमध्यतिरिक्तं प्रार्थ
For Private And Personal Use Only

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132