Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यन्त इति । देहबकुशास्तु ये करचरणनखादीन् कदाचित् निर्निमित्तं भूपयान्तीति । इमे व द्विविधा अपि शिष्यादिपरिवारादिका विभूति तपः पाण्डित्यादि प्रभवं च यशः प्रार्थयन्ते, तदासादने न च प्रमोदन्ते, छेदा श्वातिचारैर्बहुभिः शवलिता अपि कर्मक्षयार्थमुद्यता इत्यादिलक्षणयुक्ता पकुशाः। यदुक्तं-" उवगरण-देह-चोक्खा, इड्डीरसगारवा सिया निश्छ । पकुसबल छेयजुत्ता, निग्गंथा बाउमा भणिया ॥१॥" तथा कुत्सितं 'शीलं' धरणं येषां ते तथा, तेऽपि द्विधा-आसेवना-कषायभेदात् , तत्रासेवनाकुशीला ये ज्ञानदर्शनचारित्रतपांसि किश्चिदुपजीवन्ति, कषायकुशीलास्तु ये क्रोधादिभिः कषायैर्ज्ञानादिगुणान् युजन्ति, अथवा कषायैर्ज्ञानादीन् ये विराधयन्ति भवोच्छेदायोपस्थिता अपीत्यादि लक्षणभाजश्व कुशीला इति । ततो बकुशाश्व कुशीलाश्चेति द्वन्द्वः। तेषामुचितायोग्या ' यतिक्रिया' प्रत्युपेक्षाप्रमार्जनप्रभृतिका साधुसामाचारी, तथा ' मुक्ता' रहिता ये न भवन्ति, प्रत्यहं यतिकृत्यं च तत्-"पडिलेहणापमजणा-भिक्खिरिया-लोयझुंजणा घेव । पत्तगधुयणवियारा, थंडिलमावस्मयाई ॥ १॥" इत्यादि दशविधचक्रवालसामाचारीचरिण इत्यर्थः । यदुक्तं श्रीउमास्वातिवाचककृततत्त्वार्थसूत्रे भाष्ये च "पुलाकबकुश-कुशील-निग्रन्थ-स्नातका निग्रेन्थाः" [अ. ९ सू. ४९] [भाष्ये] पुलाको बकुशा कुशीलो निर्ग्रन्थः स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति । तत्र सततमप्रतिपातिनोजिनोक्तादागमात्-निर्ग्रन्थपुलाकाः । नैग्रन्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषाऽनुव. र्तितः ऋद्धियशस्कामाः स्वतगौरवाश्रिताः अविविक्तपरिवाराः। अविविक्ता इति न असंयमात् पृथग्भूताः कतरिका कल्पितकेशाः, एवंविधः परिवारो येषां ते, छेदशवलयुक्ताः सर्वदेशच्छेदाह अतीचारजनितशबलेन-वैचित्र्येण युक्ताः, बकुशा; कुशीला द्विविधाप्रतिसेवनाकुशीलाः कषायकुशीलाच, तत्र प्रतिसेवनाकुशीला नैग्रंन्थ्यं प्रति प्रस्थिताः ये अनियतेन्द्रियाः अजितेन्द्रियाः रूपादिविषयेक्षणकृतादराः कश्चित् क्वचिदुत्तरगुणेषु विराभयन्तः चरन्ति, ते प्रतिसेवनाकुशीलाः। प्रतिसेवनाऽधिकारे प्रतिसेवनापश्चानां मूलगुणानां रात्रिभोजनविरनिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाकः स्यात, मैथुनमित्येके । बकुशो द्विविधः-उपकरणबकुशः शरीरवकुशश्च । तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तः-विविधं देशभेदेन, विचित्रं-रक्तपीतादिमिर्वर्णैर्बहुमूल्योपकृतियुक् बहुविशेपोपकरणकाङ्क्षायुक्तो । बहु-विशेषे[ण ] मृदु-दृढरुचिर-वर्णादि-युक्तोपकरणे जाताभिलाषः, नित्यं तत्प्रतिसंस्कारसेवी, नित्यं-सर्वदा 'तस्य' उपकरणस्य 'प्रतिसंस्कार' प्रक्षालन-दशाबन्धन-घटिकासंवेष्टनादिकं, तत्सेवी भिक्षुरुपकरणबकुशो भवति । शरीराभियुक्तचित्तो विभूषार्थ तत्प्रतिसंस्कारसेवी शरीर For Private And Personal Use Only

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132