Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न सन्त्येव सम्प्रति यथोक्तलक्षणभाजो यतयोऽदर्शनादिस्यादि यदाशङ्कितं तदपास्तं, कालादिदोषाव-प्रायशः तथाविध-यतीनामदर्शनेऽपि कापि ते न सन्तीत्यनावासस्यकर्तुमयोग्यत्वात् , तदुक्तं-" कालाइदोसओ कहवि, जइवि दीसंति तारिसा न जई । सवत्थ तहवि नस्थित्ति, नेव कुजा अणा[स्सास] आसं (१) ॥१॥" आतीर्थमागमे बकुश-कुशीलानामनुवृत्तिश्रवणात् । यदाह-"न विणा तित्थं नियंठेहि, नातित्थं व नियंठया। छक्कायसंजमो जाव, ताव अणुस्सजणा दुन्हं ॥१॥" इति, बकुशकुशीलयोरनुवृत्तिरिति तत्र व्याख्यानात् , तथा च ज्ञानदर्शनाभ्यामेव सम्प्रति तीर्थमिति नुवाणस्य भवतः प्रायश्चित्तापत्तेः, यदाह-" केसिंचि आएसो, सणनाणेहिं वट्टए तित्थं । वुच्छिन्नं च चरितं, वयमाणे भारिया चउरो ॥१॥" असद्ग्रहात् तदनिच्छतश्च सङ्घबाह्यत्वप्रसङ्गात् , यदुक्तं-"जो भणइ नत्थि धम्मो, नय सामाइयं न चेव य वयाई । सो समणसंघवज्झो, कायबो समणसंधेग ॥१॥" तस्मात् सन्त्येवाद्यापि विरलाः प्राग्वर्णितगुणा मुनयो। यदाह-" तो भासरासिगहविहुरिए वि, वह दक्षिणे वि इह खित्ते । अत्थि हि[च्चि] य जा तित्थं, विरलतरा केइ मुणिपवरा ॥ १" इति वृत्तार्थः ।। ३६ ॥
तदेवं दुषमायामपि सुविहित यतिमत्ता व्यवस्थाप्य साम्प्रतं सामान्यविशेषगुणवत्तया तेषामेव वन्दनीयतां प्रदर्शयन्नाह
संविनाः सोपदेशाः श्रुतनिकषविदः क्षेत्रकालाद्यपेक्षा ।। ३७ ॥ व्याख्या-वन्द्याः सत् साधवोऽस्मिन्निति सम्बन्धः। 'संविमा' मोक्षामिला. चुकाः भवभीरवो वा, न तु परलोकवै मुख्येनेहलोकप्रतिबद्धाः। एवंविधा अपि स्वनिस्तारका एव भविष्यन्ति, तथा च किं ? तैरित्यत आह-'सोपदेशा' धर्मदेशना. तत्पराः, न त्वालस्य सातशीलवादिना तद्विमुखाः, तं विना भव्योपकाराभावात्तस्य चावश्यं यतिना विधेयत्वात् , अन्यथा आत्मम्भरित्वमात्र प्रसङ्गात् , यथाकथश्चित् तद्भवमुक्तिगामुकेनापि च कृतकृत्येन भगवता भविकोपचिकीर्षया तदादरणात् , ग्लादिनाऽप्याचार्येण धर्मव्याख्यानमवश्यं कर्त्तव्यमित्यागमेऽभिधानाच । यदाह-" दो चेव मत्तगाई, खेलकाइय सदोसगस्सुचिए । एवं वि निचं, वक्खाणिजत्ति भावत्थो ॥१॥" 'श्रुतनिकषविदः' आगमरहस्यनिपुणा, एतेन गीतार्थतया धर्मकथाधिकारित्वमाह, अगीतार्थस्य तदयोगात् । एवंविधा अपि स्वयं क्रियाशिथिला भविष्यन्तीत्यत आह'क्षेत्रकालाद्यपेक्षं ' अस्मिन् क्षेत्रे अमुष्मिन् काले, आदिग्रहणाच्छरीरबलादिग्रहा, एवंविधे
For Private And Personal Use Only

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132