Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बकुशः । प्रतिसेवनाकुशीलच मूलगुणानविराधयन् नुत्तरगुणेषु काश्चिद्विराधना प्रतिसेवते । कषायकुशील--निर्ग्रन्थ-स्नातकानां प्रतिसेवना नास्ति । पुलाकस्योत्कृष्टस्थितिषु देवेष सहस्रारे, बकुश-प्रतिसेवनाकुशीलयोविंशतिमागरोपस्थितिषु आरणाच्युतकल्पयोः, सर्वेषामपि जघन्यः पल्योपमपृथक्त्वस्थितिषु सौधर्मे उपपातः । अत्र च पुलाक-निर्ग्रन्थस्नातकपरिहारेण यत् वकुसकुशीलोचितक्रियायुक्तयतिगवेषणं तत्तैरेव सर्वतीर्थकराणां तीर्थप्रपत्तेः, “ सबजिणाणं जम्हा, बकुसकुसीलेहिं वदृए तित्थं । " इति वचनात् । तथा 'न युक्ता' न स्पृष्टा ' मदो' जात्यादिमिरात्मोत्कर्षप्रत्यय: ' ममता' गृहस्थादिषु प्रतिवन्धो, ममैते योगक्षेमं वहन्ति, ततो यद्यमीषां काप्यनिष्टं न सम्पद्यत इत्यादि. स्नेहेन तत्सुखदुःखाम्यां यतेरपि तद्वत्तेति यावत् । 'आजीवनं' आजीविकानिर्वाहस्तस्माद् भयं, तदभावसम्भावनया भीतिहिभिर्विदितशैथिल्याः सिद्धान्ताध्ययनादिविरहिता वा गृहस्थच्छन्दोऽनुवृत्ति विना निस्पृहतया शुद्ध प्ररूपयन्तो वा, एतत्कृतनिर्वाहाभावेन कथं वयं जीविष्याम । इत्यायव्यवसाय इत्यर्थः। ततश्च मदश्चेत्यादि द्वन्द्वः । तैः। महासवानां हि स्वजन-धन-पुत्र कलत्रादि-सङ्गत्यागेन प्रव्रज्याग्राहिणां कुतस्त्यो गृहस्थादिषु ममताद्यवकाशः १, क्लीवानामेव तद्भावात् । एवं च सति ये ममतादिभिर्वर्जिताः। तथा 'सक्लेशः अविच्छिन्नप्रवाहतया प्रतीयमानो रौद्राध्यवसायः तस्य 'आवेश' आवेगः-उत्कर्षों येषामिति व्यधिकरिणो बहुब्रीहिः । ते, तथा ये न भवन्ति, सज्वलनकषायोदयत्वेन तेषां तनिवन्धनत्वप्रथमादिकषायोदयाभावात् । ' न कदभिनिवेशा' अनाभोगादिनाऽन्यथाकारं स्वयं प्रज्ञप्ते अभ्युपगते वा वस्तुनि कुत्सितमानसाग्रहवन्तो ये न भवन्ति, तत्कारणमिथ्याभिमानाभावात् । 'न कपटप्रिया' मायाप्राधान्येनानुछाननिष्ठा ये न भवन्ति, तनिमित्तजनरजनापरिणामाभावात् । ममताजीवनभयादयश्च साधुत्ववादकत्वात्-यतीनां सर्वथा हेया एव इत्यतस्तेषामिह निषेधो विशेषेण प्रदर्शितः। यदुक्तं-" एवं च संकिलिट्ठा, माइट्ठाणम्मि निश्चतल्लिच्छा। आजीवियभयवस्था, मृदा नो साहुणो नेया ॥ १ ॥" य एवं गुणगणोपेतास्ते 'यतयः' साधवः ' अद्यापि' सुसाधुरहिततया शङ्किते दुष्पमाकालेऽपि, आस्तां दुष्पमसुषमादावित्यपि शब्दार्थः । स्युभवेयुः इह' प्रवचने 'भूत्ररतयः' सिद्धान्ताध्ययनाध्यापनव्याख्यानश्रावणपरायणाः, अध्ययनादिकर्तव्यता विषयतयैव तेषां शास्त्रीयशिक्षाश्रवणात् । यदुक्तं-" शाखाध्ययने चाध्यापने च, सश्चिन्तने तथात्मनि च । धर्मकथने च सततं, यत्नः सर्वात्मना कार्यः ॥ १॥" न तु लिङ्गिन इव प्रव्रज्यादिनमारभ्य व्यवहारमन्त्रादिप्रयोगतत्पराः । एतेन तेषामन्मानायभावप्रतिपादिता, महात्मनां सूत्राध्ययनादेरेव फलत्वात् । एतेन
For Private And Personal Use Only

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132