Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'श्रुतोल्लाने' सिद्धान्तातिक्रमे अनाशादं, आशा-मनोरथं ददाति' पूरयति आशादः, न आशादोऽनाशादः तं, श्रुताज्ञातिकमकारिणः पुंसो नार्नुमन्तारमित्यर्थः । सत् ज्ञानधुमणि, सत् ज्ञानेन-केवलज्ञानेन लोकालोकावभासकत्वात्-मास्वन्तं 'जिनं ' तीर्थकरं, तथा " सबसुरा जह रूत्रं, अंगुट्टपमाणयं विउविजा । जिणपायंगुहपहे, न सोहए तं जहिं गालो ॥१॥" इत्यादिवचनेन 'वरा' सर्वाङ्गसुभगा ‘वपुः श्री' शरीरकान्तिः, सैव 'चन्द्रिका' जगतीजनप्रमोददायित्वात् कौमुदी, तया 'भेश्वरं" नक्षत्रनाथ, चन्द्रिकया चन्द्रवद्वपुःश्रिया त्रिजगदालादकमित्यर्थः । 'वन्दे ' स्तुवे 'वयं ' स्तुत्यं अनेकधा' बहुधा 'असुरनरैः' दानवमानवैः शक्रेण ' मघोना, 'चः' समुच्चये, एनश्छिदं-कल्मपसर्वकषं 'दम्भारिं' शाट्यनिष्ठापकं 'विदुषां' विपश्चिता 'सदा सर्वदा 'सुवचसा' मधुरगिरा — अनेकान्तरङ्गप्रदं 'किल जैनदर्शने त्रैलोक्य वर्तिसकलं वस्तुजातं सदसमित्यानित्यादिरूपतयाऽनेकान्तात्मकमभ्युपगम्यते, तथैव प्रमाणोपपन्नत्वात् , न तु परतीर्थिकवत्सदेवासदेव वा नित्य मेवानित्यमेव वेत्यादिरूपतयकान्तात्मकं, तस्य विचारासहत्वात् । ततोऽनेकान्ते-ऽनेकान्तात्मकवादे रङ्ग-मनुरागं प्रदत्त यः स तथा ते, अनेकान्तवादप्रीत्युपादक, तर्कशकरारसस्पन्दिन्या वाचा तथा भगवाननेकान्तवादं व्युत्पादयति, यथा विद्वांसः शेपदर्शनत्यागेन तत्रैव रज्यन्त इत्यर्थः। ' चक्रमिदं ' चक्रवन्धः 'माघसम' यादृश्या वर्णन्यामपरिपाट्या माघकाव्य. स्थचक्रान्तः 'माघकाव्यमिदं-शिशुपालवध' इत्येवंरूयो नामबन्धः प्रादुर्भवति, इहापि तादृश्यैवेति माघसमतार्थः, अत्र च "जिनवल्लभेन गणिनेदं चक्रे " इति नामबन्धः स्थापना चेय-एतच्चेवं चक्राक्षरन्यासस्वरूपं व्यक्तमिति वृत्तार्थः ।। ३८ ॥
एवं चानेन प्रकरणेन सप्रपञ्चं मिथ्यापथस्वरूपप्रकटिते प्रभुश्रीजिनवल्लभसूरयः किमित्येवं प्रकटवृत्या लिङ्गिनो भवद्भिदेषिता ? इति केनाप्युपालब्धास्तस्य च प्रति. वचनं तस्मै वक्ष्यमाणवृत्तद्वयेनोपन्यस्तं अतस्तदपि प्रकृतानुपातित्वादत्रेव प्रकरणान्ते निबद्धं तदिदानी व्याख्यायत इत्याह
जिनपतिमतदुर्गे कालतः साधुवेषैः ॥ ३९ ॥ व्याख्या-जिनपतिमतमेव-भगवच्छासनमेव मिथ्यात्वादि वैरिवाररक्षाक्षमस्वात् बद्धमूलत्वेन प्रतिपक्षरक्षय्यत्वात् उन्नतिमत्वेन दुरारोहत्वाच 'दुर्ग' प्राकारः तस्मिन् 'अभिभूते' उपद्रुते-विडम्बित इत्यर्थः । साधुवेरै-लिङ्गिभिः 'भस्मको' भस्मराशिग्रहः, स एवाईच्छासनरतानां नानाविधवाधाविधायित्वात् म्लेच्छ-स्तुरुष्काधिपः
HHHHHHHHE
For Private And Personal Use Only

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132