Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्य सैन्याः तदनुवर्तिचेष्टितत्वात् सैनिकास्तैर्विषयिभिः-कामुकैः । द्वितीयपक्षे वशीकृतबाह्यदेशैः । अथ कथमेवंविधस्यापि जिनमतदुर्गस्य विषयिभिरपि लिङ्गिभिरभिनव ? इत्यत आह-'कालतो' दुष्पमासमयदोपात् , अभिभूयन्ते हि कालवशान्महातेजस्विनोऽपि, ततश्च 'स्ववशजडजनानां ' सम्यक्त्वाधारोपणव्याजेनात्मायतीत्तीकृतमुग्धलोकानां ' स्वगच्छस्थितिः' एते वयं सम्प्रदायागता युष्माकं गुरवस्तस्मात् कदाचिदपि न मोक्तव्या इत्यादिका प्राक्प्रतिपादिता निजगच्छमुद्रा 'इयं' एषा 'अधुना' इदानीं 'ते' साधुवेषैः 'अप्रथि' सर्वत्रैकमत्येन अतानि । ' स्वार्थसिद्ध्यै ' कथमस्माक मेते भोग्या भविष्यतीति निजकार्यनिष्पत्तये, अत्रार्थेऽनुरूपमुपमानमाह-'शृङ्खलेव' निगड इव । एतदुक्तं भवति-यथा म्लेच्छसैन्याः कस्मिंश्चिदपि दुर्गे स्त्रभुजबलेन गृहीते द्रविणाद्यर्थ तदन्तर्वर्तिनागरिकलोकसंयमनाय शङ्खला प्रसारयन्ति, तथैतेऽपि लिङ्गिनः स्वोपभोगार्थ मुग्धजननियमनाय गच्छस्थितिं प्रथयामसुरिति वृत्तार्थः ॥ ३९ ॥ । ननु ते यदि गच्छस्थिति सर्वत्र विस्तारयामासुरेतावताऽपि किं ? इत्यत आह सम्प्रत्य प्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मक-॥ ४० ॥ व्याख्या-मोहराजकटके प्रौढिं जग्मुषि लोकैर्वयं कदामह इति सम्बन्धः । 'सम्प्रति ' अधुना 'प्रोज्जृम्भिते' अभ्युदिते ' भस्मकम्लेच्छातुच्छचले' भस्मराशितुरष्काधिपतिसारसैन्ये 'अप्रतिमे' तेजस्वितयाऽनन्यसाधारणे 'कुसङ्घ एव' प्राग्वर्णितनिर्गुणसाध्वादिसमुदाय एव ' वपुः' शरीरं स्वरूपं यस्य तत्तथा, तस्मिन् । भस्मकम्लेच्छस्य हि दुस्सङ्घ एव स्वसैन्यं, ततो यथा म्लेच्छोऽश्वादिसाधनेन परजनपदमभिभवति, एवं भस्मकोऽपि प्रबलः दुःसवलेन भगवच्छासनं मालिन्योत्पादनेन तिरस्कुरुते, तदा 'दुरन्तदशमाश्चर्ये ' दुष्टासंयतपूजाख्यान्ताश्चर्ये, चः समुच्चये, 'विस्फूर्जति ' प्रभ. विष्णौ, एवं च सति 'प्रोहिं ' स्फाति 'जग्मुपि' प्राप्नुषि ' मोह एव ' मिथ्याज्ञानमेव, लिङ्गिप्रज्ञप्तसंसारमार्गस्यादिकारणत्वात् अतिदुर्जयत्वात् रागादिप्रभवत्वाच 'राजा' पार्थिवः तस्य 'कटके' अनीके प्रागुक्तस्य भस्मकादेः सर्वस्यापि मोहराजपरिच्छदभूः तत्वेन तत्कटककल्पत्वात् , अयमर्थः-मोहो हि दुष्ट मौलराजकल्पः तस्य च दुःसङ्घलक्षणचतुरङ्गबलकलितो भस्मको म्लेच्छाख्यमहासामन्तकल्पः, दशमाचर्य तु स्वत एवातिप्रबलत्वात् साहायान्तरनिरपेक्षमेव द्वितीयमहासामन्तप्रख्यं, ततो यथा कश्चिन्महाराजाधिराजो म्लेच्छादिमहासामन्तैर्भूमण्डलं माधयति, तथाऽयमपि मोहराजो भस्मकादिभिर्जिनशासनमभिभवतीति, ततो · लोकैः' कुसङ्घजनैः तदापर-मोहराजशासन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132