Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पच्छित्तं जायए तेसिं ॥१॥" तस्माद्युक्तं क्रूरतया प्रकृतसङ्घस्य व्याघतया[निरूपणं, तथा च सिद्धः तद्वशस्य प्राणिगणस्य मोक्षामात्र इति । नन्वेवं तर्हि सिद्धान्तोक्तलक्षणस्य सङ्घस्य सम्प्रत्यभावात् भवन्मते तीर्थोच्छेदः प्रसज्यत इति चेन, यदुक्तमागमे-"निम्मल. नाणपहाणो, सणसुद्धो चरित्तगुणजुत्तो । तित्थयराणाविजो, वुच्चइ एयारिसो संघो ॥१॥ आगमभणियं जो, पनवेइ सहहइ कुणइ जहसत्तिं । तेलुकवंदणिजो, समकाले वि सो संघो ॥२॥" अन्यथा "दुप्पसहंतं चरणं" इत्यादेरादुःषमांतं चारित्रानुवृत्तिप्रतिपादकस्य भगवद्वचनस्य व्याघातापत्तेः, भावसङ्घमन्तरेण तावन्तमनेहसं चारित्रानुवृत्तेरसम्भवात् । ननु भवतु सिद्धान्तप्रामाण्यात्-इदानीमपि भावसङ्घोऽल्पीयांस्तथापि मया तावन्न दृश्यत इति चेत् १ अर्वाग्दर्शितत्वेन मात्सर्येण वा भवतः तददर्शनस्या-न्यथासिद्धत्वात् , दृश्यते च कषायकलुषितचक्षुषां सन्निकर्षऽपि निषेदुषो मनुष्यादेरनुपलम्मा, ततो यदि त्वं शुद्धपथस्पृहयालुस्तदा मात्सर्यमुत्सार्य माध्यस्थ्यमास्थाय सूक्ष्मप्रेक्षया परीक्षस्व भावसई, येन कचित्प्रेक्षसे, मैवमेव नास्तिकतामवलम्ब्य भवाम्भोधौ मक्षी. रिति । तस्मात् भगवद्वचनान्यथाऽनुपपत्या सम्प्रत्यप्यस्ति भावसङ्घः, स एव च प्रेक्षा. वता दुस्साता परिहारेणाभ्युपेतव्य इति वृत्तार्थः ॥ ३३ ॥
तदेवमौदेशिकभोजनादि द्वारदशकेन लिङ्गिभिः प्रज्ञापितस्य धर्मस्योत्पथत्वप्रकाश नेन जडानां चेतसि कोपाविर्भावं सम्भावयंस्तत्क्षणं तत्प्रदर्शनप्रयोजनमाविश्चिकीर्षुराह
इत्थं मिथ्यापथकथनया तथ्ययाऽपीह कश्चित् ।। ३४ ॥ व्याख्या-'इत्थं' प्राक्प्रतिपादितप्रकारेण 'मिथ्यापथकथनया' चैत्यवासिप्ररूपितोत्सूत्रमार्गप्रकटनया करनभूतया 'तथ्ययाऽपि' यथार्थयापि, असत्यया हि तया कोपोत्पादाद्यपि कस्यापि सम्भाव्यते इत्यपि शब्दार्थः । 'इह' लोके प्रवचने वा 'कश्चित् 'जिनशासनस्थो मा ज्ञासीत् , यदिदं मिथ्यापथकुपथत्वप्रकटनं 'अनुचितं' असङ्गतं, यदि हीदं रागद्वेषाभ्यामतथ्यं विधियेत तदाऽनौचित्यं स्यात्-न चैवमस्ति । अथो इत्यानन्तर्येऽव्ययं । तेनानुचितज्ञानानन्तरं 'मा कुपत् ' मा क्रुध्यत् 'कोऽपि' कश्चित् । यदि खेतदनुचितं स्यात्तदा तज्ज्ञानान्तरं कोपोऽपि कथश्चित् युज्येत, न चैवं, तस्मान कोपनीयं । अथ यद्येवं मिथ्यापथकथनेन परेषां कोपाविर्भावशङ्का तदाऽसौ न कथनीय एव, परसङ्क्लेशहेतोः सत्यस्यापि वचनस्यावक्तव्यत्वेनाभिधानात् । यस्मात् हेतोजैनभ्रान्त्या साधुसाध्वी-श्रावकश्राविका चैत्याद्याकारदर्शनात आहेतमेतत्प्रवचनमिति मिथ्याज्ञानेन, नहि लियादयः तत्वत आर्हताः, उक्तन्यायेन तेषां तथा त्वस्यापाकरणात् ।
For Private And Personal Use Only

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132