Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिथ्यात्वात्-जैनमतबहिभूतो लोकः 'देवीयति' देवानिवाचरति, मुक्त्यर्थमाराध्यतया देवत्वेनाभ्युपै[ती]ति यावत् । उरुदोषिणो-रागादिमतो लोकप्रतीतान् हरिहरादीन, क्षतमहादोषान् वीतरागान् लोकोत्तरविश्रुतान् अदेवीयति-अनाराध्यत्वेनानुमन्यते । अथ कथ. म्-एतन्मिथ्यात्वमिति चेत् ? उच्यते-अतस्मिन्-तदिति प्रत्ययस्यैतल्लक्षणत्वात् , तस्मान् न रागादिमन्तो देवाः। तथा सर्वशीयति-सर्वविदयमित्यभिमन्यते मूर्खमुख्यनिवहंअन्यपरतीर्थिकसमूहं प्राणातिपातानिवृत्तं । तथा तत्वज्ञ-समस्तशास्त्ररहस्यवेदिनं पशमहाव्रतधारिणं सर्वज्ञप्राय युगप्रधानमूरिं 'अक्षीयति' मूर्खयति । एवं च तत्वज्ञे गुरावास्वारोपो मिथ्यात्व-विजृम्भितं, एतावता चागुरौ गुरुभावना गुरौ चागुरुधीरिति मिथ्यात्वं लक्षितं । उन्मार्गीयति-उत्पथत्वेन मन्यते जैनमार्ग, अपथं-कुतीर्थिकमतं सम्यक्पथीयति सन् मार्गीयति तदा स्वमगुणाग्रण्यमित्यादि तु पूर्ववत् । तदाश्चर्यम्-एतन्मिध्यात्वोपहता यदेवं विपर्ययेण सर्वमवसाय गुणिनो द्विषन्तीति वृत्तार्थः ॥ ३२ ॥ ननु किमिदानी गुणिभिः प्रयोजनं ? सङ्घ एव भगवान्-निशेषदोषमोपक्षमः समाधीयतां, भगवताऽपि च तस्य महत्त्वेन नमस्कृतत्वात् तथा च तदाज्ञया वर्तमा. नानां मोक्षः प्राणिनां सम्पत्स्यत इत्याशङ्कया-धुनातनसयशवर्त्तिनो भव्यजनस्याक्षेपपूर्व मोक्षाभावमुपदिदर्शयिषुराह सङ्घनाकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यत ॥ ३३ ।। व्याख्या-'जन्तवो' धर्मार्थिनो भव्यसचा त एवावलत्वात्-मुग्धत्वात् सम्व. रहितत्वात्-च ' हरिणा' मृगाः तद्वातस्य-तत्समुदायस्य-उत्पथप्रवृत्त-उत्सूत्रप्रज्ञायकः श्रुतज्ञाननिरपेक्षः स्वच्छन्दचारी सातलोलुपः साधु-साध्वी-श्रावक-श्राविकासमवायो भूयानिह सङ्घ उच्यते, स एव बलिष्ठत्वात् क्रूरत्वाच्च 'व्याघ्रः' शार्दूलस्तद्वशस्य-तदधीनस्य-दासवत्-यत्र तत्र नियोज्यस्येति यावत् । द्वितीयपक्षे ग्रासविषयीभूतस्य 'मोक्ष' इति श्लिष्टपदं, तेन जन्तुपक्षे ' मोक्षो' निर्वाणं, हरिणपक्षे च छुटनं व्याघ्रात्पलायनमिति यावत् । 'कुतः' कः स्यात् १ न कथश्चिदित्यर्थः । ननु मुक्त्यनुगुणा-नुष्ठाना-भावात्तस्य मोक्षामावा, किमायातं ? सङ्घस्येत्यत आह-' मुक्त्यै ' निःश्रेयसार्थ 'कल्पितदानशीलतपसोऽपि ' स्वबुद्ध्याविहित जिनादिवितरण देशचारित्रानशनादेरप्यास्तां तदितरस्येत्यपि शब्दार्थः । कथं तर्हि मोक्षाभाव ? इत्यत आह-' सङ्घाय' लिङ्गिसमुदायाय 'देयानि' कृतानि । देयेत्राचेति त्रा तद्धितः । ततश्च ' सङ्घनाकृतानि ' श्रावकलोकेन भक्या स्वद्र. विणेन निर्माप्य लिङ्गिभ्यः तत्-देशनयैव वासाद्यर्थ समर्पणेन तदायत्तीकृतानि 'चैत्यानि' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132