Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ ललाटतटभ्रकुट्यादि क्रोधविकाराः 'न शाम्यन्ति ' न सहन्ते, द्विषन्तीत्यर्थः। तत्र देशेऽमीषां प्रचारेण वयं लोकस्यागौरव्या भविष्याम इत्यादि बुद्ध्या मात्सर्यात्तत्रावस्थातुमेव तेषां न ददतीत्यर्थः । सुविहित यतीन् सत्साधुत्वमेवानुगुणविशेषणैस्तेषां भावयति'सम्यङमार्गपुषः' भगवत्प्रणीतज्ञानादित्रयरूपमोक्षपथस्य भव्यानां शुद्धोपदेशप्रतिबोधद्वारेण विस्तारकाः। एतेन तेषामुत्सूत्रभाषणप्रतिषेधमाह । 'प्रशान्तवपुषः' बहिरलक्षितरागादि विकारशरीरभाजः, एतेनान्तरपि प्रबलरागाद्यमावं प्रकाशयति, अन्तस्तद्भावे पहिः सर्वदा प्रशान्तत्वानुपपत्तेः । 'प्रीतोल्लसच्चक्षुषः ' द्विष्टानपि प्रतीत्य प्रसमो. त्फुल्ललोचनाः, एतेन बहिः कोपविकारपरिहारमाविष्करोति । ' श्रामण्यर्दूि ' प्राणातिपातविरमणादिपञ्चमहाव्रतविभूतिमुपेयुषः-आसेदुषः, एतेन दीक्षामूलं सर्वविरतिसम्पदं दर्शयति । 'स्मयमुषः' अहङ्कारतिरस्कारिणः, एतेन वाग्मित्वविद्वत्तादावभिमान. हेतौ सत्यपि तदभावं प्रकटयति । 'कन्दर्पकक्षप्लुषः' मन्मथशुष्कतृणदाहिनः, एतेन सर्वव्रतमध्ये निरपवादब्रह्मवतदाढयं द्रढयति । 'सिद्धान्ताध्वनि' शुद्धागममार्गे ' तस्थुषः ' स्थितवतस्तत्परा नित्यर्थः, एतेन स्वयमुत्सूत्रक्रियानिषेधं प्रतिपादयति । 'शमजुषा ' क्षमामाजः, एतेनान्तरपि क्रोधनिरासं ज्ञापयति । 'सत्पूज्यतां ' विवेकी. जनसेव्यता 'जग्मुषः' प्राप्नुषः, एतेन सकलश्रमणगुणगणसम्पत्तिमाविर्भावयति, निर्गुणानां विवेकिलोकपूजनासम्भवात् । 'विदुषः' विचक्षणान् , एतेन स्त्रसमयपर. समयसार विदुरतां विस्फारयन्ति । न चैवं गुणशालिषु यतिषु द्वेषः कर्तुं युक्तः, अणीयसोऽपि तद्वेषस्य सकलगुणिगतगुणद्वेषरूपत्वेनानन्तभवभ्रमणनिबन्धनत्वात् , सिद्धा. न्तेऽप्यभिहितं " भरहेरवयविदेहे, पन्नरस वि कम्मभूमिया साहू । एकम्मि हीलियम्मी, सवे ते हीलिया हुंति ॥ १॥ संतगुणछायणा खल, परपरिवाओ य होइ अलियं च । धम्मे य अवमाणो, साहूपओसे य संसारो ।। २ ।। " ततः प्रेक्षावता गुणिषु बहुमान एव कर्त्तव्यो, न द्वेष, इति वृत्तार्थः ।। ३१ ॥ अथ कथमेवं विधानपि सत्साधून् खला न शाम्यन्ति ? मिथ्यात्वावल्यादिति ब्रूमः, अत एव तद्वतो मूढजनस्य नामजैनपथवर्तिनः स्वरूपं निरूपयन्नाह देवीयत्युरुदोषिणः क्षतमहादोषा न देवीयति ॥ ३२ ॥ व्याख्या-अहो ! मिथ्तात्वग्रहिलो जन उरुदोषिणो देवीयतीत्यादि सम्बन्धः । 'अहो' इति विस्मये, ग्रहः चेतसोऽसत् निर्बन्धः,सोऽस्यास्तीति,अस्त्यर्थे इलू प्रत्ययः तद्वितम इह मिथ्यात्वं प्रकरणादाभिनिवेशिकं गृह्यते, प्रायेण जैनमिथ्यादृष्टीना " गोडामाहिल. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132