Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८५ एतत्कष्टतरं 'तु' इति पूर्ववत् । सोऽपि प्रागविहितो यथाछन्दाचार्यः ' सुदृशः ' सम्य. ग्ज्ञानदर्शनयुजः 'सन्मार्गगान् ' ज्ञानदर्शनचारित्रलक्षणमुक्तिपथप्रवृत्तान् तद्विदो' मुक्तिमार्गाभिज्ञान धार्मिकान् सुविहितसाधून यद्धसति सावज्ञमज्ञानिव, यथा-किममी अगीतार्था मूर्खशिरोमणयः सिद्धान्तरहस्य जानन्ति ?, अहमेव सकलश्रुतपारावारपारदृश्वा, ततो यमहं ब्रवीमि स मुक्तिमार्ग इति । किमित्येवमुपहसतीत्यत आह-तन्महाकष्टमित्युपमानोपमेययोस्तुल्यतया योजना । अत्र च मुग्धजनपुरतो निराशं स्वकल्पितं चैत्यवासादिकमुत्सूत्रपथं प्रथयन् विधिविषयपारतन्यप्ररूपणनिपुणान् सुगुरुसम्प्रदाय: वर्तिनः सुविहितानऽभूययोपहसन् सम्प्रति वर्तमानः कुसङ्काचार्यवर्गोऽनया भग्या कविना प्रतिपादित इति वृत्तार्थः ॥ २९ ॥ साम्प्रतं श्रुत-पथा-वज्ञा-द्वारमुपसञ्जिहीर्षुः शुद्धजिनमार्गस्य दुष्टोपचितसमुदित कारणकलापेन सम्प्रति दुर्लभत्वं प्रतिपादयनाह सैषा हुण्डावसर्पिण्यनुसमयड्सव्यभावानुभावा, ॥ ३० ॥ व्याख्या-या आगम-ग्रन्थेष्वागामितया लिखिताऽऽकर्ण्यते, सा एषा सम्प्रति प्रत्यक्षा, कालस्याप्रत्यक्षत्वेऽपि तदुद्भवकार्याणां प्रत्यक्षेणोपलम्भेनोपचारादेषेत्युक्तं । 'अवसर्पन्ति ' प्रतिक्षणमायुः शरीरप्रमाणादयो भावा हानि गच्छन्ति प्राणिनामस्यामित्यवसर्पिणी सिद्धान्तप्रसिद्धः कालविशेषः, हुण्डं-सकलाङ्गोपाङ्गानां यथोक्तमानवैकल्यहेतुः षष्ठं संस्थानं, तेनोपलक्षिताऽवसर्पिणी हुण्डावसर्पिणी, व्युत्पत्तिमात्रं चेदं, तत्वतस्त्वनन्ततम-कालभाव्यसंयतपूजानिबन्धनं चैत्यवास्युत्पादहेतुःशुभभावहानिकारणं कालभेदो हुण्डावपिणी, सा च भगवति मोक्षं-गते जातेति । 'समय:-परमसूक्ष्मः कालः, ततश्चानुसमयं-प्रतिक्षणं भव्यानां' मुक्तिगामिना, अथवा 'भव्याः' शुभा 'भावाः' परिणामा 'अनुभावाश्च' प्रमावा मति-निश्चया वा, ततश्च 'इसन्तो' हीय. माना भव्यभावानुभावा यस्यां सा तथा । हुण्डावसर्पिण्यां हि कालस्वाभाव्यात् धर्मार्थिनामपि प्रायेण भावा यादृशा वर्तमान क्षणे न तादृशाः क्षणान्तरे इत्यादि क्रमेण प्रतिक्षणं सङ्क्लेशतारतम्याघ्राततयोपजायमाना उपलभ्यन्ते, तथा च प्रकरणकारेणैव प्रकरणान्तरे प्रदर्शितं-"कालस्स अइकिलित्तणेण अइसेसिपुरिस-विरहेण । पायमजुग्गत्तेण य, गुरुकम्मत्तेण य जियाण ॥१॥ किर मुणियजिणमयावि हु, अंगीकयसरिसधम्ममग्गावि । पायमइसंकिलिट्ठा, धमत्थी वित्थ दीसंति ॥२॥" अत्र च इसदित्यनेन संयोगपरत्वेऽपि पूर्ववर्णस्य न गुरुत्वं, छन्दः शास्त्रैर्व्यवस्थित[क्या] नुवृत्त्या कचितत्तनिषेधात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132