Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माइणे" त्यादिनाऽऽभिनिवेशिकस्यैव तस्य प्रतिपादनात् । ततश्च तेन 'ग्रहिला' प्रबलमिथ्याऽभिनिवेशगृहगृहीत इत्यर्थः । 'जनो' धर्मध्वजि-भक्तश्राद्धलोकः, उरवोमहान्तो यतिजनस्यात्यर्थमनुचितत्वेन 'दोषा' अपराधा रागद्वेषप्राणातिपातापादय उरुदोषाः तद्वत आचार्यादीनिति गम्यं । ' देवीयति' देवानिव-जिनानिवाचरति, यादृशा देवा नीरागा अतिशयादि मन्तश्च तादृशा अमी, तस्मादाराध्या इति देवैः तानुपमिमीते, न च तादृशां तेषां तदुपमानं समीचीनं, तेषां महादोषवत्वेन देवोपमानविधानस्य महापातक हेतुत्वात् परं मिथ्यात्वस्य विपर्यासरूपत्वात् विपरीतबुद्धिः तादृशा. नपि तथोपमिनोति, एवमुत्तरपदेष्वपि भावनीयं । 'क्षतमहादोषान् ' प्रणष्टप्रागुक्तबृहदपराधान् युगप्रधानादीनिति शेषः । ' अदेवीयति' अदेवानिवाचरति, नामी देवसदृशाः, सदोपत्वात्-निरतिशयत्वाच्च, तस्मादनाराध्या इति । अत्र च क्षीणप्रायदोषाणां देवैरुपमानं सिद्धान्तेऽप्युदितं-" पडिरयो तेयस्सी" इत्यादावाचार्यगुणवक्तव्यतायां 'प्रतिरूपः' सिद्धान्त तात्पर्यपरिच्छेददेशनाऽतिशयवत्वादिना तद्विषयबुद्धिजनकत्वात्तीर्थकरप्रतिविम्बरूप इति व्याख्यानात् , स च विपर्यस्त-मतित्वात्तथा न करोति । एवमदेवप्राये देवबुद्धिर्देवप्राये चादेवबुद्धिरिति मिथ्यात्वस्वरूपं प्रतिपाद्या-गुरौ गुरुबुद्ध्यादिरूपं तदाह-' सर्वज्ञीयति ' सर्वज्ञमिव-सर्वविदमिवाचरति ' मूर्खमुख्यनिवहं ' अज्ञचूडामणिसमूहं स्वाभ्युपेतगच्छस्थितं यतिजनं, यथा-सर्वज्ञसदृशोऽयं मदीयो यतिजन: किं किं शास्त्रजातं न वेत्तीति । ' तत्वज्ञ' पडूदर्शनतर्ककर्कशधियं स्वपरसमयनिर्णयभूमि सूरिविशेष 'अज्ञीयति' अज्ञमिव-बालिशमिवाचरति, यथा-न किश्चिदप्येष जानाति । अयमर्थ:-न हि मूर्खशिरोमणेः सर्वज्ञेनोपमानं युक्तं नापि तत्वज्ञस्याज्ञेन, अत्यन्तमननुरूपत्वात् , परं स मिथ्याज्ञानात् एवमपि करोति । अधुना अमार्गे मार्गबुद्ध्यादिरूपं मिथ्यात्वं दर्शयति-'उन्मार्गीयति ' उन्मार्गमित्र-उत्पथमिवाचरति । 'जैनमार्ग' शुद्धं भगवत्पथ, यथा-नायं भगवत्प्रणीतो मार्गः किन्तूत्सूत्र इति । ' अपथं' कुमार्ग प्राक्प्रतिपादितमौदेशिकभोजनादिकं स्वकल्पितं 'सम्यक् पथियति' सम्यक् पथमिव-सन्मार्गमिवसन्मार्गमिवाचरति । अत्रापि यत्-जिनमार्गस्य चन्द्रवत्प्रकाशस्योन्मार्गेण-[ तामसेन] नाम जैनेन सादृश्यापादनमुन्मार्गस्य च सत्पथतुल्यतापादनं तन्मिथ्यात्वोदयादिति । तथा 'स्वं' आत्मानं 'अगुणाग्रण्यं' निर्गुणधुरन्धरं 'कृतार्थीयति' कृतार्थमिव-विहितसकलप्रयोजनमिवाचरति । अत्रापि स्वस्य निर्गुणमुख्यस्य कृतार्थेन ' गुणिमुख्येनोपमानमविद्यावशादिति । एवं तावल्लोकोत्तरिकजनविषयं मिथ्यात्वस्वरूपं प्रदर्य बाह्यलोकविषयममि प्रसङ्गात् किश्चित्-दर्यते-'मिथ्यात्वग्रहिलो जन' आभिग्रहिकादि.
For Private And Personal Use Only

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132