________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
ललाटतटभ्रकुट्यादि क्रोधविकाराः 'न शाम्यन्ति ' न सहन्ते, द्विषन्तीत्यर्थः। तत्र देशेऽमीषां प्रचारेण वयं लोकस्यागौरव्या भविष्याम इत्यादि बुद्ध्या मात्सर्यात्तत्रावस्थातुमेव तेषां न ददतीत्यर्थः । सुविहित यतीन् सत्साधुत्वमेवानुगुणविशेषणैस्तेषां भावयति'सम्यङमार्गपुषः' भगवत्प्रणीतज्ञानादित्रयरूपमोक्षपथस्य भव्यानां शुद्धोपदेशप्रतिबोधद्वारेण विस्तारकाः। एतेन तेषामुत्सूत्रभाषणप्रतिषेधमाह । 'प्रशान्तवपुषः' बहिरलक्षितरागादि विकारशरीरभाजः, एतेनान्तरपि प्रबलरागाद्यमावं प्रकाशयति, अन्तस्तद्भावे पहिः सर्वदा प्रशान्तत्वानुपपत्तेः । 'प्रीतोल्लसच्चक्षुषः ' द्विष्टानपि प्रतीत्य प्रसमो. त्फुल्ललोचनाः, एतेन बहिः कोपविकारपरिहारमाविष्करोति । ' श्रामण्यर्दूि ' प्राणातिपातविरमणादिपञ्चमहाव्रतविभूतिमुपेयुषः-आसेदुषः, एतेन दीक्षामूलं सर्वविरतिसम्पदं दर्शयति । 'स्मयमुषः' अहङ्कारतिरस्कारिणः, एतेन वाग्मित्वविद्वत्तादावभिमान. हेतौ सत्यपि तदभावं प्रकटयति । 'कन्दर्पकक्षप्लुषः' मन्मथशुष्कतृणदाहिनः, एतेन सर्वव्रतमध्ये निरपवादब्रह्मवतदाढयं द्रढयति । 'सिद्धान्ताध्वनि' शुद्धागममार्गे ' तस्थुषः ' स्थितवतस्तत्परा नित्यर्थः, एतेन स्वयमुत्सूत्रक्रियानिषेधं प्रतिपादयति । 'शमजुषा ' क्षमामाजः, एतेनान्तरपि क्रोधनिरासं ज्ञापयति । 'सत्पूज्यतां ' विवेकी. जनसेव्यता 'जग्मुषः' प्राप्नुषः, एतेन सकलश्रमणगुणगणसम्पत्तिमाविर्भावयति, निर्गुणानां विवेकिलोकपूजनासम्भवात् । 'विदुषः' विचक्षणान् , एतेन स्त्रसमयपर. समयसार विदुरतां विस्फारयन्ति । न चैवं गुणशालिषु यतिषु द्वेषः कर्तुं युक्तः, अणीयसोऽपि तद्वेषस्य सकलगुणिगतगुणद्वेषरूपत्वेनानन्तभवभ्रमणनिबन्धनत्वात् , सिद्धा. न्तेऽप्यभिहितं " भरहेरवयविदेहे, पन्नरस वि कम्मभूमिया साहू । एकम्मि हीलियम्मी, सवे ते हीलिया हुंति ॥ १॥ संतगुणछायणा खल, परपरिवाओ य होइ अलियं च । धम्मे य अवमाणो, साहूपओसे य संसारो ।। २ ।। " ततः प्रेक्षावता गुणिषु बहुमान एव कर्त्तव्यो, न द्वेष, इति वृत्तार्थः ।। ३१ ॥
अथ कथमेवं विधानपि सत्साधून् खला न शाम्यन्ति ? मिथ्यात्वावल्यादिति ब्रूमः, अत एव तद्वतो मूढजनस्य नामजैनपथवर्तिनः स्वरूपं निरूपयन्नाह
देवीयत्युरुदोषिणः क्षतमहादोषा न देवीयति ॥ ३२ ॥ व्याख्या-अहो ! मिथ्तात्वग्रहिलो जन उरुदोषिणो देवीयतीत्यादि सम्बन्धः । 'अहो' इति विस्मये, ग्रहः चेतसोऽसत् निर्बन्धः,सोऽस्यास्तीति,अस्त्यर्थे इलू प्रत्ययः तद्वितम इह मिथ्यात्वं प्रकरणादाभिनिवेशिकं गृह्यते, प्रायेण जैनमिथ्यादृष्टीना " गोडामाहिल.
For Private And Personal Use Only