________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा 'त्रिंशः' जैनसिद्धान्तोक्ताष्टाशीतिग्रह-मध्यात्रिंशतः पूरणः, चः समुच्चये, उपग्रहोजिनप्रवचनस्योदग्रोपसर्गकारित्वात-दारुणो ग्रहः, अय-मेष प्रत्यक्षोपलभ्यमानकार्यों मस्मराशिनामा, खें-अकाशं, तस्य च शून्यत्वात्खमिति गणितव्यवहारे शून्यस्यविन्दोः संज्ञा, नखा इति च विंशते संज्ञा, नखानां विंशतिसङ्ख्यत्वात् , ततश्च खं च खं च नखाश्चेति द्वन्द्वः, तैः पश्चानुपूर्या अङ्करचया स्थापितैः मितानि-परिसङ्ख्यातानि 'वर्षाणि' संवत्सराः 'स्थिति' रेकस्मिन् राशाव[व]स्थानं यस्य स तथा, एकराशौ वर्षसहस्रवणस्थितिक इत्यर्थः(२०००)। सहि हो भगवनिर्वाणकालानन्तरं वर्षसहस्रद्वयं यावत् क्रूरत्वाव-भगवजन्मराशौ सङ्क्रान्तत्वात्-भगवन्तं च मुक्तत्वेन दुःखीकर्तुमशक्तत्वाततत्पक्षतयैव प्रवचनस्य बाधां करिष्यति । तथा 'अन्त्यं' दशमं, चः समुच्चये। 'आश्चर्य' अनन्ततम-कालभावित्वादद्भुतम-संयतपूजाख्यं 'एतत्' इदानी प्रत्यक्षं 'जिनमतहतये' आहेतप्रवचनापभ्राजनापादनाय ' तत्समाः' तेः प्रागुक्तैत्रिभिः 'समा' तुल्यवला 'दुष्पमा' दुष्टा-लोकदुःखकारिण्य ' समा' वर्षाणि यस्यां सा तथा, कालचक्रस्य षडरकस्य पञ्चमोऽरका, यथा प्राक्तनास्त्रयः समुदिता जिनमतं घ्नन्ति तथा चतुर्थी दुषमाऽपि । चः पूर्ववत् । इति प्रकरणे । 'एषु' प्रकृतेषु हुण्डावसर्पिण्यादिषु ' एवं ' दर्शितप्रकारेण प्रतिपदं सुविहितलाघवासंयतगौरवापादनलक्षणदुष्टकार्यदर्शनादृष्टेविव 'दुष्टेषु ' क्रूरेषु 'पुष्टेषु' प्रकर्षकोटिं प्राप्तेषु हुण्डावसर्पिण्यादिषु चतुर्यु · अनुकलं' प्रतिसमयं 'अधुना' साम्प्रतं 'दुर्लभो' दुरापो जैनमार्गः, प्रतिपत्तिविघ्नकारिणां हण्डावसर्पिण्यादीनां दुष्टत्वात्तन्महिम्ना च भूयोलोकस्य भवाभिनन्दित्वात्कतिपयसाचिका जनोपादेय इति यावत् 'जैनमार्गः' प्रतिश्रोतोरूप-भगवत्पथ इति वृत्तार्थः ॥ ३० ॥
एवं तावदष्टादशभिर्वृत्तैः प्रबन्धेन लिङ्गिनां श्रुतपथावज्ञा प्रतिपादिता, सम्प्रति तेरेव धर्मतया प्रतिपादितं गुणिद्वेषधीरिति द्वारं निराकुर्वस्तेषां गुणिद्वेषं दर्शयबाह
सम्यग् मार्गपुषः प्रशान्तवपुषः प्रीतोल्लसञ्चक्षुषः ॥ ३१ ॥ व्याख्या-खलाः सत्साधून न क्षाम्यन्तीति सम्बन्ध । तत्र 'खलाः ' गुणिः मत्सरिणः प्रकरणाल्लिङ्गिनः। कृतदुष इति दुषधातुः विवन्तोऽत्र दोषपर्यायः। ततश्च 'कृता' विहिता 'दुषो' दोषा:-स्वयमनेकेऽनर्था यैस्ते तथा, तत्स्वभावत्वात् तेषां अथवा 'कृता' आरोपिता ' दुषो' दोषा यैस्ते तथा, निर्मलेष्वपि सन्मुनिगुणेषु लोकमध्ये लाघवापादनाय स्वधिया विहितदोषारोपा इत्यर्थः । गुणवत्स्व सदोषारो. पणस्य तेषां कुलव्रतत्वाच्च । 'उद्यत् दुषा निर्निमिचं सुविहितदर्शनमात्रेणैव प्रकटित
For Private And Personal Use Only