Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया अद्यतनसाधुप्रवर्तिता विवेकिनां निःश्रेयसाय भविष्यति, किं श्रुतेनेति ९ । तथा 'गुणिषु' ज्ञानादिवत्सु यतिषु 'द्वेषधीः' मात्सर्यबुद्धिः, स्वयं निर्गुणानां तद्गुणानसहिप्णूनां तदुपजिघांसया दुष्टा मतिरिति एते च परगृहवासिनो धार्मिकं मन्या आत्मानमेवैकं गुणैरुत्कर्षयन्तो निखिलानप्यपरान् दूषयन्त ऐदंयुगीनं सङ्घमप्यवमन्यमानास्तत्प्रवृत्ति दूरेण परिहरन्तो लोकव्यवहारमप्यजानानाः सङ्घवाह्या एव, अतस्सर्वथैवैते उच्छेत्तव्याः , द्वेष एवैषु श्रेयान् १० । "गौतमादिषु वर्तित्वा-तादृशेषु यतिध्वनिः । कथमेतेषु वर्तेत ?, निर्गुणेष्वञ्जसेति चेत् ? ॥१॥" "कल्पक्षोणिरुहां यद्वद्, गुणायोगेऽपि वर्तते । निम्बादिषु तरुध्वानो,विना विप्रतिपत्तितः ॥२॥" "यथा च जात्यरत्नानां, गुणाभावेऽपि तादृशाम् । काचे सान्द्रांशु चारचिक्ये, मणिशब्दः प्रयुज्यते" "गौतमादिगुणायोगे-ऽपीदानीन्तनसाधुषु । उद्यच्छत्सु स्वशक्त्यैवं, प्रवर्त्यति यतिध्वनि ॥४॥" ___ इति वास्तव क्षान्त्यादिदशविधयतिधर्मस्पर्द्धयैव यथाछन्दैः प्रदर्शितो धर्मोऽयं चेत्कर्महरो भवेदित्यादि पूर्वव्याख्यातमिति वृत्तार्थः ॥ ५॥ इदानीमेतानि दशद्वाराणि यथाक्रमं कथयन् प्रथमं तावजीवोपमर्दाद्यनेकदोषप्रकटनपूर्वमौदेशिकभोजनद्वारं प्रत्याख्यातुमाह षटकायानुपमृद्य निर्दयमृषीनाधाय यत्साधितं ॥ ६ ॥ व्याख्या-कः 'सघृणो' दयालुर्विदन्-सङ्घादिनिमित्तमेतन्निष्पन्नमिति जानन् इहेति प्रवचने 'जिघत्सति' अत्तुमिच्छति । “अदेः सनन्तस्य घसादेशे रूपं"। किं तत् ? 'सङ्घः' साधुसाध्वीरूपः श्रमणगणः आदिशब्दादेकद्वित्रादिश्रमणपरिग्रहः, तस्य भक्ततत्कृते निवृत्तमशनादि, नामेति कुत्सायां, अतीव कुत्सितमेतद्भक्तं यतीनां, जानतो मुनेः कृपालोरेवं विधं भक्तं भोक्तुं न कल्पत इत्यर्थः । कथं तत्कुत्सितं ? अत आहयत्साधितं, तच्छब्दस्य यच्छब्देन नित्याभिसम्बन्धात् , ततश्च यद्भक्तं ' साधितं' निष्पादितं, गृहस्थेनेति शेषः । किं कृत्वा ? 'आधाय' उद्दिश्य, कान् ? 'ऋषीन् ' यतीन् , यतिभ्यो मयैतद्देयमिति चित्ते कृत्वेत्यर्थः। अथ निरवद्यवृत्त्या यतिनिमित्तं कृतेऽप्यस्मिन् को दोषः ? इत्याह-' उपमृद्य ' विध्वस्य 'षद्कायान् ' पृथिव्यप्तेजोवायु-वनस्पति-त्रसाख्यान् षड्विधजीवनिकायान् । कथमुपमृद्य ? इत्याह-निर्दयमिति क्रियाविशेषणं । ननु भवत्वेतद्यत्यर्थ साधितं कुत्सितं, तथापि सिद्धान्तानिषेधान्न For Private And Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132