Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५८ Acharya Shri Kailassagarsuri Gyanmandir द्वारान्तर - निराकरणमेतदिति ज्ञापनार्थम् । अयमर्थः - गृहिपरिग्रहे हि तत्कृतकारितादिसकल महारम्भ - महापरिग्रह - जनितपापानुमत्यादिना यतीनामपि तत्कृतादिनिखिलपापप्रसङ्गोऽतः कथं तस्य नातिमहा सावद्यता १, परकृतमहापापस्यात्मन्यध्यारोपण मेव चातिशब्दार्थः । तदुक्तं- " आरम्भनिर्भर गृहस्थपरिग्रहेण तत्पातकं सकलमात्मनि सन्दधानाः । सत्यात् पतन्त्य - ह ह ! ! तस्करमोषदोषं, माढव्यनिग्रहभयं सितभिक्षुपाशाः ॥ १ ॥ " इति । अतएव गृहिपरिग्रहो यतीनां प्राश्चित्तापच्या श्रुते निवारितः, यदुक्तं " ओसन्न - गिहिसु लहुगे " त्यादि । एतेन गृहिस्वीकारं प्रति यत्परस्य पूर्व हि कालस्य सौस्थ्यादिना युक्त्यभिधानं तदपि निरस्तम् । कालदोषात् कुतीर्थिकादि-भूयस्त्वेऽपि गृहिस्वीकार मन्तरेणापि भद्रकादि श्राद्धेभ्यो यतीनामधुनाऽपि भिक्षादिप्राप्तेरुपपत्तेः, अतः केवल औदरिकत्वापच्यातीवोपहासपदं विदुषां तदर्थस्तत्स्वीकार इति । योऽपि "जा जस्स ठिई जा जस्स संति पुवपुरिस कय मेरो सो तं अइ कर्मतो अनंत संसारी उ हो । इत्यागमोपन्यासः सोऽपि न भवदभिमतप्रसाधकः, अन्यार्थत्वात् न हि गृहिपरिग्रहसाधकोऽयं प्रकृतागमः, किन्तु गणधरादीनां शिष्य-प्रतिशिष्यपरिग्रहविषयः, तथाहि-या काचित् अस्य गणधरशिष्यप्रतिशिष्यादेः स्थितिः - प्रतिक्रमणवन्दनादौ न्यूनाधिक- क्षमाश्रमणदानादि-लक्षणा सामाचारी, या वा यस्य सन्ततिर्गुरुपारम्पर्येणालोचनादि दानविषयः सम्प्रदायः, या च पूर्वपुरुषकृता गणधरादिप्रवर्त्तिता ' मेरा ' मर्यादा - गच्छव्यवस्था, तामतिक्रामन् अनन्तसंसारिको भवतीति, अत्र हि गणधर शिष्यादीनां स्वस्वगुरुप्रदर्शित-स्थित्याद्यतिक्रमेऽनन्त संसारितापच्या प्रतिनियतगणधर परिग्रह विषयत्वमवसीयते, श्रावकाणां तु सर्वधार्मिक गच्छेष्व विशेषेण भक्तपानादि भक्त्यभिधानात् । धर्मगुरुषु तद्गच्छे वा विशेषेण दानमक्तिप्रतिपादनं तत्तेषां दुष्प्रतीकारतया, न तु तत् स्वीकारविषयतयेति । एवं गृहिपरिग्रहः सर्वथा यतीणां नोचित इति ५ । तथा चैत्यस्य ' जिनगृहस्य ' स्वीकरणं ' स्वायत्ततापादनं तत्र । तुत्रापि प्रथमद्वारादस्य भेदमाह -' गर्हिततमं ' प्रत्यहं सकलचैत्यकृत्यचिन्ता तदव्योपभोगादिना लोकेऽप्यतिनिन्दितं ' माठपत्यं ' मठनायकत्वं ' स्यात् ' भवेत् ' यतेः 'मुनेः । एतदुक्तं भवतिचैत्यस्वीकारे हि यतीनां तच्चिन्तनं सकलमनुष्ठेयं, तस्य चारम्भदोषवत्तया द्रव्यस्तवत्वेन यतीनां निवारणात्, एवं च त्वमेव परिभावय मार्गानुसारित् या बुद्ध्या यन्मुनेर्देवाधिकारं चिन्तयतः कथं माठपत्यमतिकुत्सितं न प्रसज्यत १ इति । लौकिका अध्याहु:तथा - " यदीच्छेन्नरकं गन्तुं, सपुत्रपशुबान्धवः । देवेष्वधिकतिं कुर्यात् - गोषु च ब्राह्मणेषु च ।। १ ।। तथा 44 नरकाय मतिस्ते चेत्, पौरोहित्यं समाचर । वर्षं यावत्किमन्येन, माठपत्यं दिनत्रयम् ॥ १ ॥ ३ ॥ 6 , , For Private And Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132