Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मभिहितमागमे, न च निशि नन्दिविधानस्य ततोऽवगम्यते-नास्त्यपवादेनापि रजन्यां नन्दिविधान, एवं निशि जिनप्रतिमा प्रतिष्ठायामपि सकलमेतद् दूषणजातं विविच्य वाच्यं, तदुक्तं-" प्रादुषदोषपोषायां, दोषायां साधयन्ति ये । जिनबिम्बप्रतिष्ठां ते, प्रतिष्ठा स्वस्य दुर्गतौ ॥१॥" तदेवं दोषकलापदर्शनाद्रात्रौ मजनादि विधायिनां पापपङ्के निमजनं भवतीति व्यवस्थितं । इदं वक्ष्यमाणं च वृत्तद्वयं द्विपदीच्छन्द इति वृत्तार्थः ॥ १८ ॥ माम्प्रतं प्रसङ्गेन मन्जनात् अन्यस्यापि धर्मकृत्यस्य संसारनिमित्तत्वं प्रकटयमाह जिनमतविमुस्खविहितमहिताय न मजनमेव केवलं ॥ १९ ॥ व्याख्या-'जिनमतविमुखविहितं ' भगवदागमवैपरीत्य-निर्मितं 'मजनमेव' स्नपनमेव केवलं 'एकं 'अहिताय' संसाराय न भवति-स्नानमेवैकं अविधिविहितं संसारकारणमिति नास्ति, किन्तु किं तर्हि ? तप्यते धातवोऽशुभकर्माणि चानेनेति तपो. ऽनशनादि, तथा 'चरित्रं ' सर्वविरतिः 'दान' पात्रेषु न्यायार्जितशुद्धभक्तादिवितरणं, आदिशब्दात् विनयवैय्यावृत्यादिग्रहः, ततस्तपश्चेत्यादि द्वन्द्वगर्भो बहुव्रीहिः। ततश्चैवमाधप्यनुष्ठानं जिनमतवैपरीत्य विहितं, न केवलं मञ्जनमित्यपि शब्दार्थः । न खलु' नैव 'जनयति' सम्पादयति 'शिवफलं' मुक्तिरूपं फलं । अथ कस्मादेवं ? इत्यत आह-'हि' यस्मात् 'अविधिविधिकमात्' सिद्धान्तानुक्त-तदुक्तप्रकारेण 'जिनाज्ञाऽपि ' भगवच्छासनोक्तानुष्ठानमपि ' अशुभशुभाय' अश्रेयः श्रेयसे, द्वन्द्वेकवद्भावादत्रैकवचनं । 'जायते' सम्पद्यते, यथासंखेयनात्र योजना, तेनायमर्थ:-किल जिनपूजा-तपःप्रभृतिप्रवचनप्रसिद्ध जिनाज्ञा, भगवता निःश्रेयससाधनत्वेनाज्ञापितत्वात् । तथा च तदप्यविधिक्रमेण-"काले सुइभूएणं" इत्याधुक्तविधिविपर्ययेण क्रियमाणमशुभाय भवति, विधिक्रमेण तु सन्ध्यात्र. या-राधनशुचिभूतत्वादिना तदेव शुभाय। विध्यविधिभ्यां भगवदाज्ञाऽऽराधना-नाराधनयोरेव मोक्षसंसारफलत्वात् । किं पुनरित्यादि वाक्यं काका योज्यं । अत्र च किमित्या. क्षेपे, पुनरिति वाक्यभेदे, इति प्रकरणे । तेनैषा प्रकृतारात्रिमजनादिका क्रिया 'विडम्बनैव' प्रवचनापभ्राजनैव-लोकोपहासास्पदं, न त्वेषा जिनाज्ञाऽपीत्येवकारार्थः । 'अहितहेतुः ' संसारनिबन्धनं न प्रतायते' न विस्तार्यते, किन्तु अवहितहेवुत्वेन प्रख्याप्यते एव, इदमुक्तं भवति-जिनाज्ञाऽपि तपःप्रभृतिका आपवादिका-धाकर्मभोजनादिका वा यदा अविधिना विधीयमाना भवफला तदा किं पुनरस्या विडम्बनाया:-सर्वथा जिन वचनवाडाया रात्रिमजनादिकाया वक्तव्यं ? सुतरामेषा भवहेतुरेव, अतोऽहितहेतुत्वेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132