Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ तिहेयस्याधाकर्मादेः गोमांसादिनैवोपमानोपमेयदर्शनादिति युक्तमुक्तं 'विडिशपिशितवद्'बिम्बमादय॑जैन'मिति । साम्प्रतं प्रकृतमुपक्रम्यते-तथा 'तन्नाम्ना' जिननामधेयेनभगवद्भाण्डागारनिमित्तमेते निर्माप्यन्ते, नास्मन्निमित्तमिति व्यपदेशेन 'रम्यरूपान्' रुचिररचनया दृष्टबन्धनया च मनोहराकारान् 'अपवरका' अन्तर्गृहा 'मठा' निलयविशेषास्ततो द्वन्द्वस्तान् 'स्वेष्टसिद्ध्यै' वयमेवाजन्मसुखेन वत्स्याम इत्यात्माभिमतनिष्पतये 'विधाप्य' कारयित्वा, ते हि शठाः स्त्रनिमित्तमपवरकादीन् निष्पादयन्ति मुग्धाश्च जानते-जिननिमित्तमित्यहो !! एतेषां जिनभक्तिरिति, तेषु ते रज्यन्ते तश्वोपजीव्यन्त इति वञ्चनप्रकारः। तथा 'यात्रा' पित्राद्युद्देशेन भवद्भिरत्राष्टाहिका कर्तव्या, अमुष्मिन्त्रा मासादावमुना श्राद्धेन श्रीमत्यत्र देवगृहे यात्राः कृतास्तस्माद्भवद्भिरपि तथैव विधेया । तथा 'स्नानं' श्राद्धपक्षादिषु पित्रादेः श्रेयसे युष्माभिरत्र स्नात्रं कर्त्तव्यमित्युपदेशव्याजेन यात्रास्नात्रविधापन, ततो द्वन्द्वः। आदिशब्दाच्छुतानुक्तपर्वग्रहः । तदादय 'उपाया' मुग्धविप्रलम्भन प्रकारास्तैः । ननु कथमेवंविधयात्रादीनां मुग्धजनप्रतारकत्वं ? यावता यथातथा भगवत्पूजायाः कुशलानुबन्धहेतुत्वादिति चेन्न, एवं हि लोकोदाहरणप्रामाण्येन भगवत्पूजाविधाने भगवतोऽग्रामाण्यो(प)पादनेन मिथ्यात्वादिप्रसङ्गात्, यदुक्तं"जिट्टम्मि विजमाणे, उचिए अणुजिट्टपूअणमजुत्तं । लोगाहरणं(च) व तहा, पयडे भगवंतवयणम्मि ॥ १ ॥ लोगो गुरुतरगो खलु, एवं सह भगवओवि इट्ठोति । मिच्छतमो य एवं एसा आसायणा परमा ॥२॥" तथा 'नमसितकं उपयाचितक-भवता. मिदानीमीगुपद्रवः समुद्यस्थितः तस्माद्भवद्भिस्तनिवृत्तये जिनगोत्रदेवताऽम्बिकादिशासनसुराणामियद्रव्यमेषणीयमिति गृहिणः प्रतिजिनााद्देशेन वित्तव्ययविधापनमिति यावत् 'निशाजागर' उपसर्गवर्गोपशमनाय प्रवचनदेवतादीनां पुरतो बल्यादिस्थापनगीत-वाद्यलास्यपुरस्सरं सकलरात्रिजागरणं । ततो द्वन्द्वः । आदिग्रहणादन्येषामपि शान्तिकपौष्टिकानां सङ्गहः । तदादीनि 'छलानि' छमानि-लोकोपजीवनार्थमागमानभिहितत्वेन विलोभननिमित्तानीति यावत् , तैः करणभूतैः, चशब्द उक्तवचनप्रकार समुच्चये । श्रद्धालु-विवेकविकलधर्मेच्छावान् , विवेकिनो हि प्रायेण नैवंविधैः प्रतारणितुं पार्यन्ते । 'नामतः' संज्ञामात्रेण जैनै-र्जिनदेवतैर्न तु क्रियया, भ्रष्टाचारस्वात्तेषां, तेन लिङ्गिभिरित्यर्थः । 'शठः' प्रपञ्चप्रपश्चनचतुरैः, छलित इवेत्युपमान, यथा 'छलितः' शाकिन्यादिभिर्वशीकृतः तथाविधचैतन्यराहित्यात्सुखेन वश्चयितुं शक्यते, तथाऽयं-एष ' जनः' श्राद्धलोको हा !!! इति विषादे ‘वश्यते' विप्रलभ्यते, महानयम् अस्मञ्चेतसि विषादो-यद्धर्मार्थी लोको धृत्तः स्वार्थ वञ्चयित्वा दुर्गती पात्यत इति वृत्तार्थः ॥२१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132