Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिलक्षणसामग्रीजन्यत्वेन वैजात्योपपत्तेः, न हि मृत्पिण्डदण्डादि-तन्तुवेमादिविसदृशसामग्रीजन्ययोर्घटपटयोः साजात्यं नाम, तथा च तन्मनसः कदाचिदपि न शुभभावतापत्तिः, न हि भूनिम्बस्य-शर्कराभावः शिल्पिशतेनाप्यापादयितुं शक्यते, तत्कस्य हेतोः ? स्वस्वसामय्या विजातीयतयैव तयोरुत्पत्तेरिति । अथवा मनः सिद्धमेव तस्य तु क्रूरत्वं विधेयं,तस्य कालकूटादिभिः साध्यं । अथास्मिन्पक्षे क्रूरत्वस्यौपाधिकत्वात् अपगमप्रसङ्गो, वस्त्रादिषु महारजनरागस्य तथा दर्शनादिति चेन, औपाधिवस्यापि धर्मस्य कयाचित् सामय्या जन्यमानस्यानगमदानात् , यथा पट्टांशुकादिषु नीलीरागस्यौपाधिकस्यापि न कदाचिदपगम इति । तदुपपन्नमेतन्नूनं क्रूरमकारि मानसमिति । 'अमुं' प्रत्यक्षं 'दुर्मार्ग' कुपथं ' आसे दुषां' अभ्युपेयुषां लिङ्गिनां तद्भक्तानां चेति शेषः । ननु भवतु तेषां क्रूरं मनस्तथापि किं न वन्छिन्नमित्यत आह-' दौरात्म्येन ' दुष्टाशयत्वेन 'निज. धनुषां' उचिच्छिदुषां जिनपथं ' भगवत्प्रणीतं सत्पथं सन्मार्गवर्तिनामुपसर्गकरणेन वस्तुतो जिनमार्ग भ्रंशयद्भिर्बह्वस्माकं छिन्नमित्यर्थ । अथ जिनपथं नि [जनतां तेषां द्विजादीनामिव किं दर्शनान्तरपरिग्रहेण मतान्तर प्ररूपणा नेत्याह-'वाचा' वचनेन स्वमति कल्पितमप्यौदेशिक भोजनादिमार्ग 'एषसः' अयमेव स जिनप्रणीत: पन्था नान्य ' इति ' एवं प्रकारेण 'उचुषां' अभिदधुषां, न ते दर्शनान्तरस्था: स्वमतं परूपयन्ति, तत्स्थर्जिनपथवर्तिनो जनस्य प्रतारयितुमशक्यत्वात् , किन्तु अस्मि नेव दर्शने वेषमात्रेण स्थिताः स्वप्ररूपितं कुमागे जैनमार्गत या वदन्तो मुग्धलोकं व्यामो. हयन्तीत्यर्थः, एतावता संरम्भेण सत्पथं प्रत्यतीव प्रत्यनीकत्वं तेषां प्रकटितं । इह च सेत्यत्र 'स' शब्दाद्विर्जनीयलोपे सन्धिप्रतिषेधेऽपि " ते तदा पादपूरतो सन्धि" रिति विशेषलक्षणेन सन्धिविधानमिति वृत्तार्थः ॥ २६ ॥ 'अत इत्य' न्तरा पदद्वयोरप्यनयोवृत्तद्वयोः सम्बन्धयोजनार्थ, तच्चाग्रिमवृत्तस्यादौ योक्ष्यते, इदानीं तेषां वचनमात्रमपि विवेकिनः श्रोतुं न युज्झत इत्याह-अतः दुर्भेदस्फुरदुप्रकुमहतमः स्तोमास्तधी चक्षुषांः ।। २७ ।। व्याख्या-यत एवं नामैते जैनपथं प्रति दुष्टा, अतो-ऽस्माद्वेतोः, किणित्याह तेषां 'वचांसि ' कुपथप्रतिपादकानि कनानि ' कुरुते ' विधते कर्णो स्वयणे 'सकर्णः' . सश्रोत्रः । अथ च सहृदयः कथं ' केन प्रकारेण ? न कयश्चिदित्यर्थः । नहि मकर्णस्य । कर्णकटूनि स्पृष्टपरमर्माणि वचनानि खलानां श्रोतुं युक्तानि, किन्तु कयोरेतदेव फलंयत्पीयूषवाएका अपहसितमुक्ताः सतां सूक्तयः श्रूयन्ते । अथ च सकर्णस्य प्रेक्षावतः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132