________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिलक्षणसामग्रीजन्यत्वेन वैजात्योपपत्तेः, न हि मृत्पिण्डदण्डादि-तन्तुवेमादिविसदृशसामग्रीजन्ययोर्घटपटयोः साजात्यं नाम, तथा च तन्मनसः कदाचिदपि न शुभभावतापत्तिः, न हि भूनिम्बस्य-शर्कराभावः शिल्पिशतेनाप्यापादयितुं शक्यते, तत्कस्य हेतोः ? स्वस्वसामय्या विजातीयतयैव तयोरुत्पत्तेरिति । अथवा मनः सिद्धमेव तस्य तु क्रूरत्वं विधेयं,तस्य कालकूटादिभिः साध्यं । अथास्मिन्पक्षे क्रूरत्वस्यौपाधिकत्वात् अपगमप्रसङ्गो, वस्त्रादिषु महारजनरागस्य तथा दर्शनादिति चेन, औपाधिवस्यापि धर्मस्य कयाचित् सामय्या जन्यमानस्यानगमदानात् , यथा पट्टांशुकादिषु नीलीरागस्यौपाधिकस्यापि न कदाचिदपगम इति । तदुपपन्नमेतन्नूनं क्रूरमकारि मानसमिति । 'अमुं' प्रत्यक्षं 'दुर्मार्ग' कुपथं ' आसे दुषां' अभ्युपेयुषां लिङ्गिनां तद्भक्तानां चेति शेषः । ननु भवतु तेषां क्रूरं मनस्तथापि किं न वन्छिन्नमित्यत आह-' दौरात्म्येन ' दुष्टाशयत्वेन 'निज. धनुषां' उचिच्छिदुषां जिनपथं ' भगवत्प्रणीतं सत्पथं सन्मार्गवर्तिनामुपसर्गकरणेन वस्तुतो जिनमार्ग भ्रंशयद्भिर्बह्वस्माकं छिन्नमित्यर्थ । अथ जिनपथं नि [जनतां तेषां द्विजादीनामिव किं दर्शनान्तरपरिग्रहेण मतान्तर प्ररूपणा नेत्याह-'वाचा' वचनेन स्वमति कल्पितमप्यौदेशिक भोजनादिमार्ग 'एषसः' अयमेव स जिनप्रणीत: पन्था नान्य ' इति ' एवं प्रकारेण 'उचुषां' अभिदधुषां, न ते दर्शनान्तरस्था: स्वमतं परूपयन्ति, तत्स्थर्जिनपथवर्तिनो जनस्य प्रतारयितुमशक्यत्वात् , किन्तु अस्मि नेव दर्शने वेषमात्रेण स्थिताः स्वप्ररूपितं कुमागे जैनमार्गत या वदन्तो मुग्धलोकं व्यामो. हयन्तीत्यर्थः, एतावता संरम्भेण सत्पथं प्रत्यतीव प्रत्यनीकत्वं तेषां प्रकटितं । इह च सेत्यत्र 'स' शब्दाद्विर्जनीयलोपे सन्धिप्रतिषेधेऽपि " ते तदा पादपूरतो सन्धि" रिति विशेषलक्षणेन सन्धिविधानमिति वृत्तार्थः ॥ २६ ॥
'अत इत्य' न्तरा पदद्वयोरप्यनयोवृत्तद्वयोः सम्बन्धयोजनार्थ, तच्चाग्रिमवृत्तस्यादौ योक्ष्यते, इदानीं तेषां वचनमात्रमपि विवेकिनः श्रोतुं न युज्झत इत्याह-अतः
दुर्भेदस्फुरदुप्रकुमहतमः स्तोमास्तधी चक्षुषांः ।। २७ ।।
व्याख्या-यत एवं नामैते जैनपथं प्रति दुष्टा, अतो-ऽस्माद्वेतोः, किणित्याह तेषां 'वचांसि ' कुपथप्रतिपादकानि कनानि ' कुरुते ' विधते कर्णो स्वयणे 'सकर्णः' . सश्रोत्रः । अथ च सहृदयः कथं ' केन प्रकारेण ? न कयश्चिदित्यर्थः । नहि मकर्णस्य । कर्णकटूनि स्पृष्टपरमर्माणि वचनानि खलानां श्रोतुं युक्तानि, किन्तु कयोरेतदेव फलंयत्पीयूषवाएका अपहसितमुक्ताः सतां सूक्तयः श्रूयन्ते । अथ च सकर्णस्य प्रेक्षावतः
For Private And Personal Use Only