________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७९
'सदृशोऽपि' सम्यग्दृष्टयो जिनमतान्तःस्था अपि प्रायशः, किम्पुनरन्ये ? इत्यपेरर्थः । 'विभ्रति' धारयन्ति-कुर्वन्तीति यावत् , मन:-चेतः 'सन्देह' इदं किमेवमन्यथा वेत्युभयकोटी उल्लेख्यनवधारणज्ञानं संशयः, स एवं एकत्रानवस्थितरूपत्वसाधादोला, तया चलं, यथा दोलारूढं वस्तु तस्याश्चलत्वाचलं, एवं सुदृशामपि मनः। अथवा 'सन्देहेन करणभृतेन दोलावच्चलं येषां नाम जैनानां ते अमी सर्वत्र सम्प्रति प्रसृतत्वात् पुरोवर्तिनः । नन्वित्यक्षमायां । 'सर्वथा' सर्वैः प्रकार 'जिनपथप्रत्यार्थनो' भगवन्मतप्रत्यनीकाः, न तु केनापि प्रकारेण तदनुकूला अपि जैनदर्शनोहास-तदभिमुखवैमुख्यापादनादिना जिनशासनेनुपचयहेतुत्वेन वस्तुतस्तेषां तदुच्छेदकत्वात् । येषां चापराधेन शशधरकरविशदे भगवच्छासने लोकोपहासविपर्यासादयो दोषाः प्रादुःष्यन्ति तेऽनन्तसंसारिणः सिद्धान्ते प्रतिपादिताः, महापापीयस्त्वात् । 'तत' इत्येतत्पदमग्रिमवृत्ती सम्भस्यत इति वृत्तद्वयार्थः ॥ २५ ॥
साम्प्रतं कुपथवर्तिनां विधिपथं प्रत्यैकान्तिकीमात्यन्तिकी च निरुपमा च मनसो दुष्टतामुपलभ्य तदुत्पादं च इतरजनमनाकारणसामय्या असम्भावय: तद्विलक्षणां तदुत्पादसामग्री सम्भावनाद्वारेणाह
सर्वैरुत्कटकालकूटपटलः सर्वैरपुण्योच्चयैः ॥ २६ ॥ व्याख्या-ततः शब्दस्य प्राक्तनवृत्तस्थस्येह सम्बन्धात्तेन, यतोऽमी सर्वथा सत्पथं दुष्टचेतसः ततः तस्माद्धेतोः, किमित्याह-नूनमिति सम्भावनायां, अहमेवं सम्मा. वयामि-यावन्त्यतिदुष्टवस्तूति जगति सन्ति तावद्भिर्युर्मागमासेदुषां रं मानसमकारीति सम्बन्धः, कथमन्यथा तन्मनसोऽतीय क्रूरता ? इतरजनमनःसाधारणकारणसामग्रीतः तदनुपपत्तेः, कारणानुरूपत्वात्कार्यस्य, न च हि न्यग्रोधवीजारिपचुमन्दप्ररोहः । कैस्तैरित्याह-'सर्वैः' सकलैरुत्कटकालकूटपटलै-नूतनत्वादत्युग्रसद्योघातिविषभेदसमूहः, एकद्विव्यादिभिरनुत्कटेश्च कालकूटशकलैस्तत्पटलेवा तादृक् क्रूरमनसो जनयितुमशक्यत्वादेवमुक्तं । एवमुत्तरपदेष्वपि योज्यं । सकलकालकूटपटलैरेव केवलै प्रकृतमनसः कर्तुमशक्यत्वात्-अपुण्योच्चयरित्यादि वाक्यावतारा,ततश्च सर्वैः-अखिलैरपुण्योच्चयैः पापराशिभिः, सर्वव्यालकुलैः-अशेषाशीविषसन्दोहै 'समस्तविधुराधिव्याधिदुष्टग्रहै।' कृत्स्नव्या सनचेतः पीडा-गद-मङ्गलादि पापग्रहैरेभिरखिलंदुष्टैरेकसामग्रीभावेन सम्भूय 'क्रूरं' सन्मार्गघातुकं 'मानसं ' चेतः 'अकारि निर्ममे। क्रूररूपस्य मनसो निर्माण विधेयमत्र, एतेनास्य मनस इतरमनोभिः साजात्यमपि निरस्तमित्येतदपि सम्भावयामि इतरमनो
For Private And Personal Use Only