________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेशने च दोषा मुनीनां प्रागेवोक्ताः । 'सारम्भाः' मठ-वाटिका-कृष्यादि-महासावद्याव्यापारकरण-कारण-प्रवणाः 'सपरिग्रहाः' गृहिवत् वाणिज्यादिप्रयोजनेन धनधान्यस्नेहादिभाण्डसत्रहपरायणाः 'सविषया' चक्षुरादीन्द्रियानुकूल-नर्तकीदर्शन-ताम्बूल. स्वादन-चन्दनाद्यङ्गराग-गन्धर्वगीत-श्रवणादिविषय-सततानुषक्तचेतसः । सेा ' विषयासक्तत्वात् कामुकत्स्वाभिमतां योषितमन्येन सार्द्धमालापादिविदधानामवेक्ष्य तं प्रत्यक्षमाभाजः 'सकांक्षाः' सम्भोगविलासाभ्यासात्प्रतिक्षणं नवनवोपजायमानरिरंसोस्कलिकाः । आरम्भादयश्च यतीनां बहुदोत्वादनेकधा निषिद्धा एव । 'सदा सर्वदा, विषयाणामनादिभवाभ्यासत् , कदाचित् सन्मुनेरपि कस्यापि चेतोविकारमात्रं प्रादुःष्यात् , न तु सर्वदा, तदैव तेषां ज्ञानाङ्कुशेन स्वचित्तमाकृष्य मिथ्यादुष्कृतादि प्रायश्चित्तप्रतिपत्तेः, इति साधूक्तं-'साधुव्याजविटा' इति ॥ २४ ॥
_ 'इति' उक्तप्रकाराणि, आदिशब्दात् अन्यान्यप्येवं प्रायणि विडम्बना व्यञ्जकानि वासि गृह्यन्ते । ततश्च इत्यादीनि-उद्धतानि-बहुजनवदनस्य मुद्रयितुमशक्यत्वातनिश्शङ्कतयोद्भटानि, सर्वत्रास्खलितानीति यावत् । 'सोपहासानि' उत्प्रासभाञ्जि' वासि' वचनानि येषां ते तथा स्यु-भवेयुर्लोकाः-प्राकृतजनाः कुतीथिंकभाविताश्व जैनपथमत्सरिणः 'प्रेक्ष्य' साक्षात्कृत्य, येषांमिति पदं तुर्यपादस्थितं सकलं वाक्यं दीपयति, तेन येषां स्थितिमित्यादि सम्बध्यते । 'स्थिति यति अनुचितासमञ्जससामाचारी,स्त्ररूपेणैव तावत् मत्सरिणः सर्वस्याप्युपहासं कुर्वन्ति, किम्पुनः सम्प्रति निरतिशयस्य जिनशासनस्य १, तत्रापि लिङ्गिना तथारूपं वैशसं व्यवहारं वीक्ष्य कथङ्कारं न कुर्युरित्यर्थः। तथा 'श्रुत्वा' आकर्ण्य येषां स्थितिं ' अन्ये ' अपरे ' अभिमुखाः ' शेषदर्शनेभ्यः सकलोपपत्तिकलितमिदं जैनदर्शनं, यतयोऽप्यत्र दर्शने शान्तात्मानः क्रियानिष्ठाचोपलभ्यन्ते, ततोऽस्माकमपीदमङ्गीकर्तुमुचितमिति चेतसोऽभ्युपगमविषयीकृतजिनशासनास्तेऽपि, आसतां तदपर इत्यपेरर्थः । 'श्रुतपथात' जैनसिद्धान्तमार्गात् वैमुख्य, एतावन्तमनेहसं वयमेवम् अज्ञास्याम-यदेतदेव तात्विकं धर्मदर्शनं निरपवादं, परं यदत्राप्येवं विधा असदाचारकारिणो विलोक्यन्ते तदाऽलमनेन ताम्र-हिरण्मया-लङ्कारदेशीयेनान्तो निस्सारण बहिर्मात्रमनोहरेण सर्वथा, प्राक्स्वीकृतमेवास्माकं दर्शनं श्रेयः, अहो जैना अन्यथावादिनोऽन्यथाकारिण इत्यादि वचनसन्दर्भेण · वैमुख्यं ' पराङ्मुखत्वं सर्वथा बहिविमिति यावत 'आतन्वते' दर्शयन्ति । तथा येषां 'मिथ्योक्क्या' मृषावचनेन, ते हि स्खलिताचारत्वेन सर्वशङ्कितत्वात् असमञ्जमचेष्टितं प्रति केनचित्प्रष्टास्सन्तो मलिम्लुचवदलीकं भाषन्ते, यथा-क एवमाह ?-न नयमेवंविधमेव कारिण इति । ततश्व
For Private And Personal Use Only