________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
अपाथक्यापादनाद् व्रतं तेषां नास्ति । अत्र चासकृत्कशब्दोपादानेन लोके लोकोत्तरे च तत्तपःप्रभृतेः तपस्त्वादिकं न सम्भवतीति ज्ञाप्यते, तेनायमाशय:-यदा किल गृहिणोऽपि सततं गृहारम्भसंस्म्भवत्वात्प्रमादमरनिर्भरा अप्यनवगततच्या अपि कदाचित्प्रत्याख्यानभङ्गेनैवमनुतप्यन्ते, तदा सुतरां यतीनां सर्वसावद्ययोगविरतानां विदितागमसाराणां कथचित् विरतिभङ्गे पश्चात्तापः प्रायश्चित्तग्रहश्च युक्तः, ये तु निश्शूकतया तां भञ्जन्तो मनाग्लजामपि नादधति तेषां नास्त्येव तपःप्रभृतीति वृत्तार्थः ॥ २३ ॥ इदानीं तेषां लोकोपहासपुरस्सरं जिनपथपरिपन्थित्वं वृत्तद्वयेन प्रकटयन्नाह
देवार्थव्ययतो यथारुचिकृते सर्व रम्ये मठे ॥ २४ ॥
इयाद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थितिम् ॥ २५ ॥ व्याख्या-येषां स्थिति प्रेक्ष्य लोकाः सोपहासवचसः स्युरिति सम्बन्धः । कथमित्याह-अहो इति विस्मये, सितपटा:-श्वेताम्बराः 'कष्टं दुष्करं 'चरन्ति' अनुतिष्ठन्ति 'व्रत' प्रव्रज्यां, महदाश्चर्यमेतत्-यत्-सितपटाः कलावप्येवंविधं व्रत कष्टमनुभवन्ति, नहि सम्प्रतितनैर्मानवैरल्पसवरेवंविधं कष्टं कत्तुं शक्यते, अथ च सवैरप्येवंरूपं व्रतं कर्नु पार्यत एव, सुखहेतुत्वादित्युपहासः। अथ कथमेवमुपहासः तेषां तैः क्रियत ? इत्यत आह'साधुव्याजेन' यतिछाना विटाः, नामी साधवः तल्लक्षणायोगात् , किन्तु तव्याजेन विटाः, सकलतल्लक्षणोपपत्तेः। तदेवाह-'देवार्थव्ययतो' देवगृहाधिपत्ये न तद्रविणस्य तदधीनत्वात् जिनवित्तविनियोगेन 'यथारुचि' स्वमनोऽभिलाषानुरूपमित्यर्थः। ‘कृते' निष्पादिते 'सर्व रम्ये' सकलवसन्तादिरूपता विभक्तकालविशेषमनोहरे मढे प्रतीते, तत्र 'नित्यस्थाः' सततवासिनः, सुविहिता हि देवद्रव्योपभोगभयात् यतिनिमित्तनिर्मितत्वेन महासावद्यत्वाच्च मढे न वसन्ति, किन्तु याचिते यादृशि-तादृशि परगृहादावेव, तत्रापि ना[न]वरतं वसन्ति, नित्यवासस्य च यतीनां श्राद्धादिप्रतिबन्धलाघवादिहेतुत्वेन प्रतिषेधात् , उद्यतविहारस्यैव ममकाराधुच्छेदनिमित्तत्वेनाभिधानात् । एते तु सातलम्पटतया मठे नित्यकृतस्थितयो विलसन्तीति कथं न भवन्ति विटाः । तथा 'शुचयो' निर्मलाः 'पट्टतूल्य:' पट्टांशुकसंवीता हंसरूतादि मयाः शय्याविशेषाः, यद्वा 'पट्टाः' श्रीपर्णादि दारुनिर्मिताः ताः 'शयनं' शयनीयं येषां ते तथा, साधवो हि कम्बलादिसंस्तारक एव शेरते, न पट्टतूल्यादिषु, तासां प्रमार्जनाद्यशुद्धे विभूषासातशीलत्वव्यञ्जकत्वाल्लोकोपहासहेतुत्वाच्च, एते तु तत्र शयाना विटत्वं प्रकटयन्ति । तथा 'सद्गब्दिकाद्यासता' शोमनगब्दिकाद्यासनाः-शोमनगब्दिकामसूरकादि विष्टरभाजः, गब्दिकाद्युप
For Private And Personal Use Only