________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
साम्प्रतं तेषां प्रत्यहं सर्वविरतिरूपप्रत्याख्यानभङ्गकरणेन तपश्चरणायमा प्रति. पादयन्नाह
सर्वारम्म-परिगृहस्य गृहिणोऽप्येकासनाघेकदा ॥ २३ ॥
व्याख्या-'सर्वारम्भ-परिग्रहस्य' सकलसावधव्यापार धनधान्यादिसङ्ग्रह-तत्परस्य 'गृहिणोऽपि' श्राद्धस्यापि, आस्तां महामुनेरित्यपि शब्दार्थः । 'एकाशनं' अन्तर्दिवसमेकवारनियमितभोजनः प्रत्याख्यातभेदः तदादिर्यस्य निर्विकृतिकादेः तदादिप्रत्याख्यानं 'एकदा' कदाचिदष्टम्यादितिथिषु प्रमादबाहुल्येन नित्येप्रत्याख्यानाभावात् 'प्रत्याख्याय' नियम्य, तदपि कदाचित कतमेकाशनादि 'न रक्षतो'ऽनाभोगमहसाकारादिना न पाल. यतो-भञ्जत इत्यर्थः । 'हृदि' चेतसि 'भवेत्'-जायेत 'तीतो' निष्ठुरोऽनुतापो-बहुना कालेन तावदद्य प्रत्याख्यानं कृतं तदपि मया मन्दभाग्येन भग्नमतो धिङ्मा, कथं मे शुद्धिर्भविष्यतीत्येवंरूपः पश्चात्तापः 'सदा सर्वदा यावद्भङ्ग-प्रायश्चित्तं गुरुभ्यो नासादयति । 'षट्कृत्वः' त्रीन् वारान्सायन्तनप्रतिक्रमणे । त्रीश्च प्रगेतनप्रतिक्रमणे षड्वारान् “सङ्ख्याया वारे कृत्वस् तद्धितः" त्रिविधं त्रिविधेति, अनेन सामायिकसूत्रमुपलक्षयति, किल साधवः सायन् प्रातश्च प्रतिक्रमणे सामायिकसूत्रमुच्चारयन्तस्त्रिविधं त्रिविधेनेति पठन्ति, यथा-"[करेमि भंते ! सामाइयं सत्वं सावजं जोगं पच्चक्खामि जावजीवाए, तिविह तिविहेणं मणेणं वायाए कारण"मित्यादि] । तत्र विविधमिति तिस्रो विधा यस्येति त्रिविधं-कृतकारितानुमतलक्षणं, त्रिविधेति त्रिविधेन करणेन मनोवाकायरूपेण सावा योग प्रत्याख्यामि इत्येवं रूपतया 'अनुदिनं' प्रतिवासरं 'प्रोच्य' अभिधाय-प्रतिज्ञाया. पीत्यर्थः, अप्रतिज्ञातानुष्ठानस्य हिं भङ्गेनापि न तथा दोष इत्यपि शब्दार्थः । 'भञ्जन्ति' स्वण्डयन्ति ये लिङ्गमात्रवृत्तयः तेषां । 'तु' गृहिणो भेदप्रदर्शनार्थः, क शब्दाः सर्वेऽप्यक्षमाव्यञ्जकाक्षेपार्थाः । 'तपोऽनशनादि, नित्यप्रत्याख्यानस्य सर्वसावद्ययोगविरतिरूपस्य सकललोकसमक्षमभ्युपेतस्य भङ्गप्रदर्शनेन नैमित्तिकप्रत्याख्यानस्यापि कथश्चिल्लोकपतथा विहितस्योपवासादेः भङ्गानुमानात्-नास्त्येव तेषां कचित्तपः । क 'सत्यवचनं' तथ्यवाक् १, सर्व सावधं योग न करोमीत्यभिधाय पुनस्तत्क्षणमेव तनिषेवणात् , प्रत्यक्षमृषावादिताप्रसङ्गेनांशेनापि सत्यवचनाभावात् । क्क 'ज्ञानिता' सिद्धान्तरहस्यपरिच्छेतृत्वं १, ज्ञानस्य हि फलं विरतिः तस्याश्च सातशीलतया तैः समूलमुन्मूलनात् तथा च कथश्चित्सतोऽपि ज्ञानस्याकिश्चित्करत्वेन तदामासत्वात् , ज्ञानगन्धोऽपि तेषां नास्तीति । क 'व्रतं' दीक्षा, दीक्षोपादानेऽपि प्रत्याख्यानभङ्गादलीकभाषणेन दीक्षाया
For Private And Personal Use Only