Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेशने च दोषा मुनीनां प्रागेवोक्ताः । 'सारम्भाः' मठ-वाटिका-कृष्यादि-महासावद्याव्यापारकरण-कारण-प्रवणाः 'सपरिग्रहाः' गृहिवत् वाणिज्यादिप्रयोजनेन धनधान्यस्नेहादिभाण्डसत्रहपरायणाः 'सविषया' चक्षुरादीन्द्रियानुकूल-नर्तकीदर्शन-ताम्बूल. स्वादन-चन्दनाद्यङ्गराग-गन्धर्वगीत-श्रवणादिविषय-सततानुषक्तचेतसः । सेा ' विषयासक्तत्वात् कामुकत्स्वाभिमतां योषितमन्येन सार्द्धमालापादिविदधानामवेक्ष्य तं प्रत्यक्षमाभाजः 'सकांक्षाः' सम्भोगविलासाभ्यासात्प्रतिक्षणं नवनवोपजायमानरिरंसोस्कलिकाः । आरम्भादयश्च यतीनां बहुदोत्वादनेकधा निषिद्धा एव । 'सदा सर्वदा, विषयाणामनादिभवाभ्यासत् , कदाचित् सन्मुनेरपि कस्यापि चेतोविकारमात्रं प्रादुःष्यात् , न तु सर्वदा, तदैव तेषां ज्ञानाङ्कुशेन स्वचित्तमाकृष्य मिथ्यादुष्कृतादि प्रायश्चित्तप्रतिपत्तेः, इति साधूक्तं-'साधुव्याजविटा' इति ॥ २४ ॥ _ 'इति' उक्तप्रकाराणि, आदिशब्दात् अन्यान्यप्येवं प्रायणि विडम्बना व्यञ्जकानि वासि गृह्यन्ते । ततश्च इत्यादीनि-उद्धतानि-बहुजनवदनस्य मुद्रयितुमशक्यत्वातनिश्शङ्कतयोद्भटानि, सर्वत्रास्खलितानीति यावत् । 'सोपहासानि' उत्प्रासभाञ्जि' वासि' वचनानि येषां ते तथा स्यु-भवेयुर्लोकाः-प्राकृतजनाः कुतीथिंकभाविताश्व जैनपथमत्सरिणः 'प्रेक्ष्य' साक्षात्कृत्य, येषांमिति पदं तुर्यपादस्थितं सकलं वाक्यं दीपयति, तेन येषां स्थितिमित्यादि सम्बध्यते । 'स्थिति यति अनुचितासमञ्जससामाचारी,स्त्ररूपेणैव तावत् मत्सरिणः सर्वस्याप्युपहासं कुर्वन्ति, किम्पुनः सम्प्रति निरतिशयस्य जिनशासनस्य १, तत्रापि लिङ्गिना तथारूपं वैशसं व्यवहारं वीक्ष्य कथङ्कारं न कुर्युरित्यर्थः। तथा 'श्रुत्वा' आकर्ण्य येषां स्थितिं ' अन्ये ' अपरे ' अभिमुखाः ' शेषदर्शनेभ्यः सकलोपपत्तिकलितमिदं जैनदर्शनं, यतयोऽप्यत्र दर्शने शान्तात्मानः क्रियानिष्ठाचोपलभ्यन्ते, ततोऽस्माकमपीदमङ्गीकर्तुमुचितमिति चेतसोऽभ्युपगमविषयीकृतजिनशासनास्तेऽपि, आसतां तदपर इत्यपेरर्थः । 'श्रुतपथात' जैनसिद्धान्तमार्गात् वैमुख्य, एतावन्तमनेहसं वयमेवम् अज्ञास्याम-यदेतदेव तात्विकं धर्मदर्शनं निरपवादं, परं यदत्राप्येवं विधा असदाचारकारिणो विलोक्यन्ते तदाऽलमनेन ताम्र-हिरण्मया-लङ्कारदेशीयेनान्तो निस्सारण बहिर्मात्रमनोहरेण सर्वथा, प्राक्स्वीकृतमेवास्माकं दर्शनं श्रेयः, अहो जैना अन्यथावादिनोऽन्यथाकारिण इत्यादि वचनसन्दर्भेण · वैमुख्यं ' पराङ्मुखत्वं सर्वथा बहिविमिति यावत 'आतन्वते' दर्शयन्ति । तथा येषां 'मिथ्योक्क्या' मृषावचनेन, ते हि स्खलिताचारत्वेन सर्वशङ्कितत्वात् असमञ्जमचेष्टितं प्रति केनचित्प्रष्टास्सन्तो मलिम्लुचवदलीकं भाषन्ते, यथा-क एवमाह ?-न नयमेवंविधमेव कारिण इति । ततश्व For Private And Personal Use Only

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132