Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ साम्प्रतं तेषां प्रत्यहं सर्वविरतिरूपप्रत्याख्यानभङ्गकरणेन तपश्चरणायमा प्रति. पादयन्नाह सर्वारम्म-परिगृहस्य गृहिणोऽप्येकासनाघेकदा ॥ २३ ॥ व्याख्या-'सर्वारम्भ-परिग्रहस्य' सकलसावधव्यापार धनधान्यादिसङ्ग्रह-तत्परस्य 'गृहिणोऽपि' श्राद्धस्यापि, आस्तां महामुनेरित्यपि शब्दार्थः । 'एकाशनं' अन्तर्दिवसमेकवारनियमितभोजनः प्रत्याख्यातभेदः तदादिर्यस्य निर्विकृतिकादेः तदादिप्रत्याख्यानं 'एकदा' कदाचिदष्टम्यादितिथिषु प्रमादबाहुल्येन नित्येप्रत्याख्यानाभावात् 'प्रत्याख्याय' नियम्य, तदपि कदाचित कतमेकाशनादि 'न रक्षतो'ऽनाभोगमहसाकारादिना न पाल. यतो-भञ्जत इत्यर्थः । 'हृदि' चेतसि 'भवेत्'-जायेत 'तीतो' निष्ठुरोऽनुतापो-बहुना कालेन तावदद्य प्रत्याख्यानं कृतं तदपि मया मन्दभाग्येन भग्नमतो धिङ्मा, कथं मे शुद्धिर्भविष्यतीत्येवंरूपः पश्चात्तापः 'सदा सर्वदा यावद्भङ्ग-प्रायश्चित्तं गुरुभ्यो नासादयति । 'षट्कृत्वः' त्रीन् वारान्सायन्तनप्रतिक्रमणे । त्रीश्च प्रगेतनप्रतिक्रमणे षड्वारान् “सङ्ख्याया वारे कृत्वस् तद्धितः" त्रिविधं त्रिविधेति, अनेन सामायिकसूत्रमुपलक्षयति, किल साधवः सायन् प्रातश्च प्रतिक्रमणे सामायिकसूत्रमुच्चारयन्तस्त्रिविधं त्रिविधेनेति पठन्ति, यथा-"[करेमि भंते ! सामाइयं सत्वं सावजं जोगं पच्चक्खामि जावजीवाए, तिविह तिविहेणं मणेणं वायाए कारण"मित्यादि] । तत्र विविधमिति तिस्रो विधा यस्येति त्रिविधं-कृतकारितानुमतलक्षणं, त्रिविधेति त्रिविधेन करणेन मनोवाकायरूपेण सावा योग प्रत्याख्यामि इत्येवं रूपतया 'अनुदिनं' प्रतिवासरं 'प्रोच्य' अभिधाय-प्रतिज्ञाया. पीत्यर्थः, अप्रतिज्ञातानुष्ठानस्य हिं भङ्गेनापि न तथा दोष इत्यपि शब्दार्थः । 'भञ्जन्ति' स्वण्डयन्ति ये लिङ्गमात्रवृत्तयः तेषां । 'तु' गृहिणो भेदप्रदर्शनार्थः, क शब्दाः सर्वेऽप्यक्षमाव्यञ्जकाक्षेपार्थाः । 'तपोऽनशनादि, नित्यप्रत्याख्यानस्य सर्वसावद्ययोगविरतिरूपस्य सकललोकसमक्षमभ्युपेतस्य भङ्गप्रदर्शनेन नैमित्तिकप्रत्याख्यानस्यापि कथश्चिल्लोकपतथा विहितस्योपवासादेः भङ्गानुमानात्-नास्त्येव तेषां कचित्तपः । क 'सत्यवचनं' तथ्यवाक् १, सर्व सावधं योग न करोमीत्यभिधाय पुनस्तत्क्षणमेव तनिषेवणात् , प्रत्यक्षमृषावादिताप्रसङ्गेनांशेनापि सत्यवचनाभावात् । क्क 'ज्ञानिता' सिद्धान्तरहस्यपरिच्छेतृत्वं १, ज्ञानस्य हि फलं विरतिः तस्याश्च सातशीलतया तैः समूलमुन्मूलनात् तथा च कथश्चित्सतोऽपि ज्ञानस्याकिश्चित्करत्वेन तदामासत्वात् , ज्ञानगन्धोऽपि तेषां नास्तीति । क 'व्रतं' दीक्षा, दीक्षोपादानेऽपि प्रत्याख्यानभङ्गादलीकभाषणेन दीक्षाया For Private And Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132