Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इदानीम् अत्युच्छङ्खलानामपि नाम जैनानां दशमाश्चर्यानुभावात् अभ्युदयं स्व. विषादपुरस्सरं दर्शयन्नाह सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः, ॥ २२ ॥ व्याख्या-'सर्वत्र' लोकसमक्षमसमक्षं च, आवति-सचिनोति जीवः कमैंमिरित्याश्रवाः पञ्च प्राणातिपातादयः ततश्चास्थगिता-अनिरुद्धा आश्रया यैस्ते तथा । स्वविषयेषु आत्मग्राधेषु रूप-रस-गन्ध-स्पर्शशब्देषु 'व्यासक्तानि' उपभोगप्रवणानि 'सर्वेन्द्रि-याणि सकलकरणानि-चक्षु-रसन-घ्राण-त्वक-श्रोत्राणि येषां ते तथा, यतिना हि निगृहीतेन्द्रियेण भवितव्यं, अन्यथा प्रव्रज्याया जीवनमात्रतापत्तेः। तथा गौरवाणि' आत्मन्युत्कर्षप्रत्ययहेतवोऽध्यवसायविशेषास्तानि च ऋद्धिरससातातिरेक-हेतुकत्वेन कारणे कार्योपचारात्-रिद्धिरससातसंज्ञान्येव त्रीणि, तैश्चण्डा:-तत्साहाय्येनोद्धरा दण्डा; दण्ड्यते-दुर्गतिपातेन दुःखं स्थाप्यते आत्मा अमीभिरिति दण्डा-अकुशलमनोवाकायाः त एव देहिनामुत्पथप्रवर्तकत्वाच्चपलत्वाच 'तुरगा' अश्वाः ततश्च 'वल्गतोऽनियमिततया यदृच्छया प्रसरन्तो गौरवचण्डा दण्डतुरगा येषां ते तथा 'पुष्यन्तः प्रबलीभवन्तः कषायोरगा येषां ते तथा । यतीनां हि श्रामण्यवैफल्योत्पादनात् कपाया: कत्तुं न युज्यन्ते । एवं तावत्पश्चाश्रवविरमण-पञ्चेन्द्रियनिग्रह-दण्डत्रयविरति-करायचतुष्टयजयलक्षणसप्तदशविधसंयमाभावेन तेषां लोकोत्तरवाह्यत्वं प्रदर्य इदानी लोकलोकोत्तरबाह्यत्वमपि दर्शयतीत्याह-'सर्वाकृत्य कृतोऽपि' लोकलोकोत्तरविरुद्धाब्रह्मसेवनपुष्पफलाद्युपभोगाद्यसदाचारकारिणोऽपि नामजैना इति प्राकृतं 'कष्टं' महदुःखमेतत् 'अधुना' सम्प्रति 'स्थित्वा' आरुह्य 'सन्मुनिमूर्द्धसु' सुविहितमुनिमस्तकेषु, प्रतिपदमसूयया सुविहितानामसदोषारोपेण लाघवोत्पादनमेव हि तेषां तन्मूर्द्धस्ववस्थानं । 'उद्धतधियो' नास्त्यस्मत्समो जगति सम्प्रति कश्चिदिति दर्पामातबुद्धयः 'तुष्यन्ति' सुविहितं मन्या अप्येते अस्माभिलघूकता इत्याशयेन मोदन्ते 'पुष्यन्ति च' साध्वादिपरिवारेण श्राद्धादि पूजया च वर्द्धन्ते । 'च' समुच्चये । अथ कथमेवंविधा अपि सन्मुनिमूर्धावस्थानेन ते तुष्यन्ति पुष्यन्ति चेत्यत आह-'अन्त्याश्चर्यराजाश्रिताः' पाश्चात्याश्चर्यपार्थिवानुगता, 'यत' इति हेतुगर्भ विशेषणं । एतदुक्तं भवति-न ह्येवंविधाकृत्यविधायिनो महामुनीनां मस्तकेष्ववस्थानं कर्तुं पारयन्ति, कथञ्चित्कुर्वाणा अपि वा न तोष पोषं च ते प्राप्नुवन्ति, महामुनि तिरस्कारमात्रेणापि तत्कारिणामिहैव हानि श्रवणात् , परं यदेवमनर्थकारिणोऽपि लिङ्गिनः सुविहिताँस्तिरस्कृत्यापि नन्दन्ति तन्नूनं दशमाश्चर्यमहिमाऽयमिति वृत्तार्थः ॥ २२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132