Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शून्यतया धर्मश्रद्धालवः त एव जडप्रकृतितया स्वहिताहितपरिज्ञानवैकल्यसाधर्मात् मीनामत्स्यास्तान 'बिम्ब प्रतिमा 'जैन' भागान्तं 'आदर्य' दर्शयित्वा, यथा-भो भव्याः! ऐहिकामुष्मिकसुखविधानदक्षमिदमहद्विम्बं, ततः पूजयत भक्त्येति सामान्यतोऽथवा भवत्पूर्वजैः एतद्विम्बमाईतं निर्मापितं, ते चेदमेव प्रत्यहं नियमेनापूपूजन , ततो भवद्भिरपीदमेव विशेषेण पूजनीय, तथाऽर्हद् विम्बनिर्मापणमेव सम्प्रति भवजलधिनिपतजन्तुतारणायालमिति भवद्भिः स्वश्रेयसे नवीनं भगवद्विम्बं स्वनाम्ना विधापनीयमिति विशेषतो मुग्धजनपुरतः प्रज्ञाप्येत्यर्थः । किल यतिना देशनाद्वारेण जिनविम्बार्चनादे-गृहिपुरः फलमुपवर्णनीयं, तत्फललिप्सया तदनुसारेण गृहिणः स्वयमेव तत्करणादौ प्रवृत्तेः, न तु साक्षात् तन्निर्माणनिर्मापणयोरुपदेशो दातव्यः तदुपदेशस्य सावद्यतया यतेनिषेधात ,लिङ्गि नस्तु कथमाजन्मामी गृहिणोऽस्माकं वश्या भविष्यन्तीति धिया ऐहिकमेव स्वार्थ केवलं चिन्तयन्तो धूर्ततया पूर्वपुरुषसम्बन्धितादि क्रमेण मुग्धेभ्यो जिनबिम्बमादर्शयन्ति, ते तु मुग्धत्वात् तदाशयमनवबुध्यमाना ऋजुश्रद्धालुतापूर्ववंश्यस्नेह-स्वकारित-ममतादिना तत्र जिनविम्बादौ नित्यं द्रव्यं व्ययंते, लिङ्गिनश्च तदुपयुञ्जते स्वेच्छयेति भवति तदाकर्षणार्थ लिङ्गिनां जिनविम्बदर्शनमिति । किमिवेत्याह-'बिडिशं' मत्स्यवेधनं, तदने मत्स्यविलोभनाय स्थापितं 'पिशितं' मांसं, तद्वत् । वतिरुपमाने, तदिव । यथा धीवरा मत्स्याकर्षणाय विडिशाग्रे पिशितं स्थापयन्ति, ते च तल्लोलतया स्वापायमागामिनमविभावयन्तो गम्भीरादपि नीराशयानित्य मुग्धत्वात् तत्र विलीयमाना बध्यन्ते, एवं लिङ्गिनोऽपि मुग्धजनानां स्ववश्यताविधानायोक्तविधिना भगवद्विम्बमादर्शयन्ति, न तु संसारनिस्तरणाय । ननु कथं जिनविम्बविडिशपिशितयोरुपमानोपमेयभावः ? समानगुणयोरेवोभयोरलङ्कारग्रन्थेषुपमानोपमेयभावप्रतिपादनात् , महाकविकाव्येषु तथैव दर्शनात् , अत्र तु जिनविम्बस्य सकलत्रिभुवनातिशायिनः सर्वोपमातीतत्वात-अत्युत्तमवस्तूपमायोग्यत्वाद्वा, बिडिशपिशितस्य च सर्वात्यन्तहीनत्वात्कथं तेनोपमा ?, उत्तममात्रस्यापि हीनमात्रेणाप्युपमानोपमेयभावो न युक्तः, किम्पुनः सर्वोत्तमस्यात्यन्ताधमेन ?, एवं च जिनबिम्बस्य बिडिशपिशितेनोपमानोपमेयभावप्रदर्शने कवेमहापापप्रसङ्गः, तत्सर्वथा नायमुपमानोपमेयभावो घटां प्राश्चतीति त(न्वे)न्न । लोकाकर्षणेव स्वनिर्वाहहेतोर्लिङ्गिपरिगृहीतस्य जिन. बिम्बस्योत्तमस्याप्यसदुपाधिवशात् दुष्परिवारपरिवृतराजादेरिव वाञ्छितफलासाधकत्वात् हीनताऽध्यारोपेणोपमानेन साम्यापादनादुपमानोपमेयभावोपपत्तेः। अत्र चापवित्रेण बिडिशपिशितेनोपमानं लिङ्गिपरिगृहीतस्य जिनविम्बस्यात्यन्तहेयता ज्ञापनार्थ,आगमेऽ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132