________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शून्यतया धर्मश्रद्धालवः त एव जडप्रकृतितया स्वहिताहितपरिज्ञानवैकल्यसाधर्मात् मीनामत्स्यास्तान 'बिम्ब प्रतिमा 'जैन' भागान्तं 'आदर्य' दर्शयित्वा, यथा-भो भव्याः! ऐहिकामुष्मिकसुखविधानदक्षमिदमहद्विम्बं, ततः पूजयत भक्त्येति सामान्यतोऽथवा भवत्पूर्वजैः एतद्विम्बमाईतं निर्मापितं, ते चेदमेव प्रत्यहं नियमेनापूपूजन , ततो भवद्भिरपीदमेव विशेषेण पूजनीय, तथाऽर्हद् विम्बनिर्मापणमेव सम्प्रति भवजलधिनिपतजन्तुतारणायालमिति भवद्भिः स्वश्रेयसे नवीनं भगवद्विम्बं स्वनाम्ना विधापनीयमिति विशेषतो मुग्धजनपुरतः प्रज्ञाप्येत्यर्थः । किल यतिना देशनाद्वारेण जिनविम्बार्चनादे-गृहिपुरः फलमुपवर्णनीयं, तत्फललिप्सया तदनुसारेण गृहिणः स्वयमेव तत्करणादौ प्रवृत्तेः, न तु साक्षात् तन्निर्माणनिर्मापणयोरुपदेशो दातव्यः तदुपदेशस्य सावद्यतया यतेनिषेधात ,लिङ्गि नस्तु कथमाजन्मामी गृहिणोऽस्माकं वश्या भविष्यन्तीति धिया ऐहिकमेव स्वार्थ केवलं चिन्तयन्तो धूर्ततया पूर्वपुरुषसम्बन्धितादि क्रमेण मुग्धेभ्यो जिनबिम्बमादर्शयन्ति, ते तु मुग्धत्वात् तदाशयमनवबुध्यमाना ऋजुश्रद्धालुतापूर्ववंश्यस्नेह-स्वकारित-ममतादिना तत्र जिनविम्बादौ नित्यं द्रव्यं व्ययंते, लिङ्गिनश्च तदुपयुञ्जते स्वेच्छयेति भवति तदाकर्षणार्थ लिङ्गिनां जिनविम्बदर्शनमिति । किमिवेत्याह-'बिडिशं' मत्स्यवेधनं, तदने मत्स्यविलोभनाय स्थापितं 'पिशितं' मांसं, तद्वत् । वतिरुपमाने, तदिव । यथा धीवरा मत्स्याकर्षणाय विडिशाग्रे पिशितं स्थापयन्ति, ते च तल्लोलतया स्वापायमागामिनमविभावयन्तो गम्भीरादपि नीराशयानित्य मुग्धत्वात् तत्र विलीयमाना बध्यन्ते, एवं लिङ्गिनोऽपि मुग्धजनानां स्ववश्यताविधानायोक्तविधिना भगवद्विम्बमादर्शयन्ति, न तु संसारनिस्तरणाय । ननु कथं जिनविम्बविडिशपिशितयोरुपमानोपमेयभावः ? समानगुणयोरेवोभयोरलङ्कारग्रन्थेषुपमानोपमेयभावप्रतिपादनात् , महाकविकाव्येषु तथैव दर्शनात् , अत्र तु जिनविम्बस्य सकलत्रिभुवनातिशायिनः सर्वोपमातीतत्वात-अत्युत्तमवस्तूपमायोग्यत्वाद्वा, बिडिशपिशितस्य च सर्वात्यन्तहीनत्वात्कथं तेनोपमा ?, उत्तममात्रस्यापि हीनमात्रेणाप्युपमानोपमेयभावो न युक्तः, किम्पुनः सर्वोत्तमस्यात्यन्ताधमेन ?, एवं च जिनबिम्बस्य बिडिशपिशितेनोपमानोपमेयभावप्रदर्शने कवेमहापापप्रसङ्गः, तत्सर्वथा नायमुपमानोपमेयभावो घटां प्राश्चतीति त(न्वे)न्न । लोकाकर्षणेव स्वनिर्वाहहेतोर्लिङ्गिपरिगृहीतस्य जिन. बिम्बस्योत्तमस्याप्यसदुपाधिवशात् दुष्परिवारपरिवृतराजादेरिव वाञ्छितफलासाधकत्वात् हीनताऽध्यारोपेणोपमानेन साम्यापादनादुपमानोपमेयभावोपपत्तेः। अत्र चापवित्रेण बिडिशपिशितेनोपमानं लिङ्गिपरिगृहीतस्य जिनविम्बस्यात्यन्तहेयता ज्ञापनार्थ,आगमेऽ
For Private And Personal Use Only